अथर्ववेद - काण्ड 20/ सूक्त 16/ मन्त्र 3
सा॑ध्व॒र्या अ॑ति॒थिनी॑रिषि॒रा स्पा॒र्हाः सु॒वर्णा॑ अनव॒द्यरू॑पाः। बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ॑पे॒ यव॑मिव स्थि॒विभ्यः॑ ॥
स्वर सहित पद पाठसा॒धु॒ऽअ॒र्या: । अ॒ति॒थिनी॑: । इ॒षि॒रा: । स्पा॒र्हा: । सु॒ऽवर्णा॑: । अ॒न॒व॒द्यऽरू॑पा: ॥ बृह॒स्पति॑: । पर्व॑तेभ्य: । वि॒ऽतूर्य॑ । नि: । गा: । ऊ॒पे॒ । यव॑म्ऽइव । स्थि॒विऽभ्य॑: ॥१६.३॥
स्वर रहित मन्त्र
साध्वर्या अतिथिनीरिषिरा स्पार्हाः सुवर्णा अनवद्यरूपाः। बृहस्पतिः पर्वतेभ्यो वितूर्या निर्गा ऊपे यवमिव स्थिविभ्यः ॥
स्वर रहित पद पाठसाधुऽअर्या: । अतिथिनी: । इषिरा: । स्पार्हा: । सुऽवर्णा: । अनवद्यऽरूपा: ॥ बृहस्पति: । पर्वतेभ्य: । विऽतूर्य । नि: । गा: । ऊपे । यवम्ऽइव । स्थिविऽभ्य: ॥१६.३॥
अथर्ववेद - काण्ड » 20; सूक्त » 16; मन्त्र » 3
विषय - विद्वानों के गुणों का उपदेश।
पदार्थ -
(साध्वर्याः) साधुओं से पाने योग्य, (अतिथिनीः) अतिथियों को प्राप्त करानेवाली, (इषिराः) वेगवाली, (स्पार्हाः) चाहने योग्य (सुवर्णाः) सुन्दर रीति से स्वीकार योग्य, (अनवद्यरूपाः) अनिन्दित स्वभाववाली (गाः) वाणियों को (बृहस्पतिः) बृहस्पति [बड़ी वेदवाणी के रक्षक महाविद्वान्] ने (वितूर्य) शीघ्रता करके (पर्वतेभ्यः) पर्वतों [के समान दृढ़चित्तों] के लिये, (स्थिविभ्यः) कोठियों [के भरने] के लिये (यवम् इव) जैसे अन्न को, (निः ऊपे) फैलाया है ॥३॥
भावार्थ - विद्वान् लोग उत्तम वेदवाणियों का प्रचार करके सबको ऐसा प्रसन्न करें, जैसे किसान लोग बीज बोकर अधिक अन्न प्राप्त करके आनन्दित होते हैं ॥३॥
टिप्पणी -
३−(साध्वर्याः) साधुभिः सज्जनैः प्राप्तव्याः (अतिथिनीः) अतिथि+णीञ् प्रापणे-क्विप्। अतिथीनां प्रापयित्रीः (इषिराः) वेगशीलाः (स्पार्हाः) तस्येदम्। पा० ४।३।१२०। स्पृहा-अण्। स्पृहणीयाः। कमनीयाः (सुवर्णाः) सुष्ठु वरणीयाः (अनवद्यरूपाः) अनिन्दितस्वभावाः (बृहस्पतिः) (पर्वतेभ्यः) शैलतुल्यदृढस्वभावानां हिताय (वितूर्व) वि+तुर त्वरणे-ल्यप्। विविधवेगं कृत्वा (निः) निश्चयेन (ऊपे) डुवप बीजसन्ताने-लिट्। विस्तारितवान् (यवम्) अन्नम् (इव) यथा (स्थिविभ्यः) स्थवयः शूकुलाः, तान् भर्तं पूरयितुम् ॥