अथर्ववेद - काण्ड 9/ सूक्त 4/ मन्त्र 11
य इन्द्र॑ इव दे॒वेषु॒ गोष्वे॑ति वि॒वाव॑दत्। तस्य॑ ऋष॒भस्याङ्गा॑नि ब्र॒ह्मा सं स्तौ॑तु भ॒द्रया॑ ॥
स्वर सहित पद पाठय: । इन्द्र॑:ऽइव । दे॒वेषु॑ । गोषु॑ । एति॑ । वि॒ऽवाव॑दत् । तस्य॑ । ऋ॒ष॒भस्य॑ । अङ्गा॑नि । ब्र॒ह्मा । सम् । स्तौ॒तु॒ । भ॒द्रया॑ ॥४.११॥
स्वर रहित मन्त्र
य इन्द्र इव देवेषु गोष्वेति विवावदत्। तस्य ऋषभस्याङ्गानि ब्रह्मा सं स्तौतु भद्रया ॥
स्वर रहित पद पाठय: । इन्द्र:ऽइव । देवेषु । गोषु । एति । विऽवावदत् । तस्य । ऋषभस्य । अङ्गानि । ब्रह्मा । सम् । स्तौतु । भद्रया ॥४.११॥
अथर्ववेद - काण्ड » 9; सूक्त » 4; मन्त्र » 11
विषय - आत्मा की उन्नति का उपदेश।
पदार्थ -
(इन्द्र इव) बड़े ऐश्वर्यवान् पुरुष के समान (देवेषु) विद्वानों के बीच, (यः) जो [परमेश्वर] (विवावदत्) अनेक प्रकार बोलता हुआ (गोषु) भूमि आदि लोकों में (एति) चलता है, (तस्य) उस (ऋषभस्य) सर्वव्यापक के (अङ्गानि) अङ्गों को (ब्रह्मा) ब्रह्मा [चारों वेद जाननेवाला विद्वान्] (भद्रया) कल्याणी रीति से (सम्) भले प्रकार (स्तौतु) सत्कार से वर्णन करे ॥११॥
भावार्थ - जो परमेश्वर वेद द्वारा अनेक नियमों का उपदेश करता हुआ सर्वलोकनियन्ता है, विद्वान् पुरुष उसके गुणों की महिमा को यथावत् जाने ॥११॥
टिप्पणी -
११−(यः) ऋषभः। परमेश्वरः (इन्द्रः) प्रतापी मनुष्यः (देवेषु) विद्वत्सु (गोषु) गौः पृथिवी-निघ० १।१। पृथिव्यादिलोकेषु (एति) गच्छति। व्याप्नोति (विवावदत्) वि+वद व्यक्तायां वाचि यङ्लुकि-शतृ। अनेकप्रकारेण प्रवदन् सन् (तस्य) (ऋषभस्य) म० १। सर्वव्यापकस्य (अङ्गानि) गुणावयवान् (ब्रह्मा) चतुर्वेदज्ञो विद्वान् (सम्) सम्यक् (स्तौतु) अर्चतु-निघ० ३।१४। (भद्रया) कल्याण्या रीत्या ॥