Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 11
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - जगती सूक्तम् - ब्रह्मप्रकाशन सूक्त

    को अ॑स्मि॒न्नापो॒ व्यदधात्विषू॒वृतः॑ पुरू॒वृतः॑ सिन्धु॒सृत्या॑य जा॒ताः। ती॒व्रा अ॑रु॒णा लोहि॑नीस्ताम्रधू॒म्रा ऊ॒र्ध्वा अवा॑चीः॒ पुरु॑षे ति॒रश्चीः॑ ॥

    स्वर सहित पद पाठ

    क: । अ॒स्मि॒न् । आप॑: । वि । अ॒द॒धा॒त् । वि॒षु॒ऽवृत॑: । पु॒रु॒:ऽवृत॑: । सि॒न्धु॒ऽसृत्या॑य । जा॒ता: । ती॒व्रा: । अ॒रु॒णा: । लोहि॑नी: । ता॒म्र॒ऽधू॒म्ना: । ऊ॒र्ध्वा: । अवा॑ची: । पुरु॑षे । ति॒रश्ची॑: ॥२.११॥


    स्वर रहित मन्त्र

    को अस्मिन्नापो व्यदधात्विषूवृतः पुरूवृतः सिन्धुसृत्याय जाताः। तीव्रा अरुणा लोहिनीस्ताम्रधूम्रा ऊर्ध्वा अवाचीः पुरुषे तिरश्चीः ॥

    स्वर रहित पद पाठ

    क: । अस्मिन् । आप: । वि । अदधात् । विषुऽवृत: । पुरु:ऽवृत: । सिन्धुऽसृत्याय । जाता: । तीव्रा: । अरुणा: । लोहिनी: । ताम्रऽधूम्ना: । ऊर्ध्वा: । अवाची: । पुरुषे । तिरश्ची: ॥२.११॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 11

    टिप्पणीः - ११−(कः) म० ५। कर्ता प्रजापतिः (अस्मिन्) (आपः) अपः। जलानि रुधिररूपाणि (व्यदधात्) कृतवान् (विषुवृतः) नानारूपेण वर्तमानाः (पुरुवृतः) बहुवर्तनशीलाः (सिन्धुसृत्याय) सृ गतौ-क्यप्, तुक्। समुद्रवद् गमनाय (जाताः) उत्पन्नाः (तीव्राः) शीघ्रगतीः (अरुणाः) कृष्णमिश्रितरक्तवर्णाः (लोहिनीः) वर्णादनुदात्तात्तोपधात्तो नः। पा० ४।१।३९। लोहित−ङीप्, तस्य नश्च। रक्तवर्णाः (ताम्रधूम्राः) ताम्रधूम्रवर्णाः (ऊर्ध्वाः) उपरिगतीः (अवाचीः) अधोगतिशीलाः (पुरुषे) मनुष्ये (तिरश्चीः) तिर्यग्गतियुक्ताः ॥

    इस भाष्य को एडिट करें
    Top