Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 16
    सूक्त - नारायणः देवता - ब्रह्मप्रकाशनम्, पुरुषः छन्दः - अनुष्टुप् सूक्तम् - ब्रह्मप्रकाशन सूक्त

    केनापो॒ अन्व॑तनुत॒ केना॑हरकरोद्रु॒चे। उ॒षसं॒ केनान्वै॑न्द्ध॒ केन॑ सायंभ॒वं द॑दे ॥

    स्वर सहित पद पाठ

    केन॑ । आप॑: । अनु॑ । अ॒त॒नु॒त॒ । केन॑ । अह॑: । अ॒क॒रो॒त् । रु॒चे । उ॒षस॑म् । केन॑ । अनु॑ । ऐ॒न्ध्द॒ । केन॑ । सा॒य॒म्ऽभ॒वम् । द॒दे॒ ॥२.१६॥


    स्वर रहित मन्त्र

    केनापो अन्वतनुत केनाहरकरोद्रुचे। उषसं केनान्वैन्द्ध केन सायंभवं ददे ॥

    स्वर रहित पद पाठ

    केन । आप: । अनु । अतनुत । केन । अह: । अकरोत् । रुचे । उषसम् । केन । अनु । ऐन्ध्द । केन । सायम्ऽभवम् । ददे ॥२.१६॥

    अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 16

    टिप्पणीः - १६−(केन) सामर्थ्येन (आपः) अपः। जलानि (अनु) निरन्तरम् (अतनुत) विस्तारितवान् (केन) (अहः) दिनम् (अकरोत्) अरचयत् (रुचे) दीप्तये (उषसम्) प्रभातवेलाम् (केन) (अनु) अनुक्रमेण (ऐन्द्ध) ञिइन्धी दीप्तौ-लङ्, अन्तर्गतण्यर्थः। प्रदीपितवान् (केन) (सायंभवम्) सायंकालसत्ताम् (ददे) दत्तवान् ॥

    इस भाष्य को एडिट करें
    Top