अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 17
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मि॒न्रेतो॒ न्यदधा॒त्तन्तु॒रा ता॑यता॒मिति॑। मे॒धां को अ॑स्मि॒न्नध्यौ॑ह॒त्को बा॒णं को नृतो॑ दधौ ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । रेत॑: । नि । अ॒द॒धा॒त् । तन्तु॑: । आ । ता॒य॒ता॒म् । इति॑ । मे॒धाम् । क: । अ॒स्मि॒न् । अधि॑ । औ॒ह॒त् । क: । बा॒णम् । क: । नृत॑: । द॒धौ॒ ॥२.१७॥
स्वर रहित मन्त्र
को अस्मिन्रेतो न्यदधात्तन्तुरा तायतामिति। मेधां को अस्मिन्नध्यौहत्को बाणं को नृतो दधौ ॥
स्वर रहित पद पाठक: । अस्मिन् । रेत: । नि । अदधात् । तन्तु: । आ । तायताम् । इति । मेधाम् । क: । अस्मिन् । अधि । औहत् । क: । बाणम् । क: । नृत: । दधौ ॥२.१७॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १७−(कः) म० ५। प्रजापतिः (अस्मिन्) मनुष्ये (रेतः) पराक्रमम् (नि) निरन्तरम् (अदधात्) दत्तवान् (तन्तुः) सूत्रवद् विस्तारः (आ) समन्तात् (तायताम्) तनोतेर्यकि। पा० ६।४।४४। आकारोऽन्तादेशो वा। तन्यताम्। विस्तीर्यताम् (इति) वाक्यसमाप्तौ (मेधाम्) प्रज्ञाम् (कः) (अस्मिन्) (अधि) उपरि (औहत्) वह प्रापणे लङि छान्दसं रूपम्। अवहत्। प्रापितवान् (कः) (बाणम्) बण शब्दे-घञ्। वाणीम् (कः) (नृतः) श्रयतेः स्वाङ्गे शिरः किच्च। उ० ४।१९४। नृती गात्रविक्षेपे-असुन्, कित्। देहचालनम् (दधौ) ददौ ॥
इस भाष्य को एडिट करें