अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 9
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
प्रि॑याप्रि॒याणि॑ बहु॒ला स्वप्नं॑ संबाधत॒न्द्र्यः। आ॑न॒न्दानु॒ग्रो नन्दां॑श्च॒ कस्मा॑द्वहति॒ पूरु॑षः ॥
स्वर सहित पद पाठप्रि॒य॒ऽअ॒प्रि॒याणि॑ । ब॒हु॒ला । स्वप्न॑म् । सं॒बा॒ध॒ऽत॒न्द्र्य᳡: । आ॒ऽन॒न्दान् । उ॒ग्र: । नन्दा॑न् । च॒ । कस्मा॑त् । व॒ह॒ति॒ । पुरु॑ष: ॥२.९॥
स्वर रहित मन्त्र
प्रियाप्रियाणि बहुला स्वप्नं संबाधतन्द्र्यः। आनन्दानुग्रो नन्दांश्च कस्माद्वहति पूरुषः ॥
स्वर रहित पद पाठप्रियऽअप्रियाणि । बहुला । स्वप्नम् । संबाधऽतन्द्र्य: । आऽनन्दान् । उग्र: । नन्दान् । च । कस्मात् । वहति । पुरुष: ॥२.९॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(प्रियाप्रियाणि) हिताहितानि कर्माणि (बहुला) बहूनि (स्वप्नम्) निद्राम् (संबाधतन्द्र्यः) बाधृ प्रतिघाते-घञ्। वङ्क्र्यादयश्च। उ० ४।६६। तदि मोहे−क्रिन्, ङीप्, यद्वा, तद्रि अवसादे मोहे च-इन्, ङीप्। द्वितीयास्थाने प्रथमा। प्रतिरोधान् आलस्यान् च (आनन्दान्) प्रमोदान् (उग्रः) प्रचण्डः (नन्दान्) हर्षान् (च) (कस्मात्) कारणात् (वहति) प्राप्नोति (पुरुषः) मनुष्यः ॥
इस भाष्य को एडिट करें