अथर्ववेद - काण्ड 10/ सूक्त 2/ मन्त्र 13
सूक्त - नारायणः
देवता - ब्रह्मप्रकाशनम्, पुरुषः
छन्दः - अनुष्टुप्
सूक्तम् - ब्रह्मप्रकाशन सूक्त
को अ॑स्मिन्प्रा॒णम॑वय॒त्को अ॑पा॒नं व्या॒नमु॑। स॑मा॒नम॑स्मि॒न्को दे॒वोऽधि॑ शिश्राय॒ पूरु॑षे ॥
स्वर सहित पद पाठक: । अ॒स्मि॒न् । प्रा॒णम् । अ॒व॒य॒त् । क: । अ॒पा॒नम् । वि॒ऽआ॒नम् । ऊं॒ इति॑ । स॒म्ऽआ॒नम् । अ॒स्मि॒न् । क: । दे॒व: । अधि॑ । शि॒श्रा॒य॒ । पुरु॑षे ॥२.१३॥
स्वर रहित मन्त्र
को अस्मिन्प्राणमवयत्को अपानं व्यानमु। समानमस्मिन्को देवोऽधि शिश्राय पूरुषे ॥
स्वर रहित पद पाठक: । अस्मिन् । प्राणम् । अवयत् । क: । अपानम् । विऽआनम् । ऊं इति । सम्ऽआनम् । अस्मिन् । क: । देव: । अधि । शिश्राय । पुरुषे ॥२.१३॥
अथर्ववेद - काण्ड » 10; सूक्त » 2; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(कः) म० ५। कर्ता। प्रजापतिः (अस्मिन्) मनुष्ये (प्राणम्) अ० २।१६।१। प्र+अन जीवने-घञ्। अन्तर्मुखश्वासम् (अवयत्) वेञ् तन्तुसन्ताने-लङ्। तन्तुवत् प्रसारितवान् (कः) (अपानम्) बहिर्मुखश्वासम् (व्यानम्) वि+अन-घञ्। सर्वशरीरव्यापकं वायुम् (उ) अपि (समानम्) हृदयस्थवायुम् (अस्मिन्) (कः) (देवः) (स्तुत्यः) (अधि शिश्राय) आश्रितवान्। स्थापितवान् (पुरुषे) मनुष्ये ॥
इस भाष्य को एडिट करें