483 परिणाम मिले!
- शूरो न धत्त आयुधा गभस्त्यो: स्व१: सिषासन्रथिरो गविष्टिषु । इन्द्रस्य शुष्ममीरयन्नपस्युभिरिन्दुर्हिन्वानो अज्यते मनीषिभि: ॥ - Rigveda/9/76/2
- शूरो वा शूरं वनते शरीरैस्तनूरुचा तरुषि यत्कृण्वैते। तोके वा गोषु तनये यदप्सु वि क्रन्दसी उर्वरासु ब्रवैते ॥४॥ - Rigveda/6/25/4
- शूर्पं पवित्रं तुषा ऋजीषाभिषवणीरापः ॥ - Atharvaveda/9/6/1/16
- शूषेभिर्वृधो जुषाणो अर्कैर्देवाँ अच्छा रघुपत्वा जिगाति । मन्द्रो होता स जुह्वा३ यजिष्ठ: सम्मिश्लो अग्निरा जिघर्ति देवान् ॥ - Rigveda/10/6/4
- शृङ्ग उत्पन्न ॥ - Atharvaveda/20/130/0/13
- शृङ्गं धमन्त आसते ॥ - Atharvaveda/20/129/0/10
- शृङ्गाणीवेच्छृङ्गिणां सं ददृश्रे चषालवन्तः स्वरवः पृथिव्याम्। वाघद्भिर्वा विहवे श्रोषमाणा अस्माँ अवन्तु पृतनाज्येषु॥ - Rigveda/3/8/10
- शृङ्गाभ्यां रक्ष ऋषत्यवर्तिं हन्ति चक्षुषा। शृणोति भद्रं कर्णाभ्यां गवां यः पतिरघ्न्यः ॥ - Atharvaveda/9/4/0/17
- शृङ्गाभ्यां रक्षो नुदते मूलेन यातुधान्यः। मध्येन यक्ष्मं बाधते नैनं पाप्माति तत्रति ॥ - Atharvaveda/19/36/0/1
- शृङ्गेव नः प्रथमा गन्तमर्वाक्छफाविव जर्भुराणा तरोभिः। चक्रवाकेव प्रति वस्तोरुस्राऽर्वाञ्चा यातं रथ्येव शक्रा॥ - Rigveda/2/39/3
- शृणुतं जरितुर्हवं कृष्णस्य स्तुवतो नरा । मध्व: सोमस्य पीतये ॥ - Rigveda/8/85/4
- शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिरः । ईशाना पिप्यतं धियः ॥९१७॥ - Samveda/917
- शृणुतं जरितुर्हवमिन्द्राग्नी वनतं गिर: । ईशाना पिप्यतं धिय: ॥ - Rigveda/7/94/2
- शृणोतु न ऊर्जां पतिर्गिरः स नभस्तरीयाँ इषिरः परिज्मा। शृण्वन्त्वापः पुरो न शुभ्राः परि स्रुचो बबृहाणस्याद्रेः ॥१२॥ - Rigveda/5/41/12
- शृण्वन्तं पूषणं वयमिर्यमनष्टवेदसम्। ईशानं राय ईमहे ॥८॥ - Rigveda/6/54/8
- शृण्वन्तु नो वृषणः पर्वतासो ध्रुवक्षेमास इळया मदन्तः। आदित्यैर्नो अदितिः शृणोतु यच्छन्तु नो मरुतः शर्म भद्रम्॥ - Rigveda/3/54/20
- शृण्वन्तु स्तोमं मरुतः सुदानवोऽग्निजिह्वा ऋतावृधः । पिबतु सोमं वरुणो धृतव्रतोऽश्विभ्यामुषसा सजूः ॥ - Rigveda/1/44/14
- शृण्वे वीर उग्रमुग्रं दमायन्नन्यमन्यमतिनेनीयमानः। एधमानद्विळुभयस्य राजा चोष्कूयते विश इन्द्रो मनुष्यान् ॥१६॥ - Rigveda/6/47/16
- शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिणः । चरन्ति विद्युतो दिवि ॥८९४॥ - Samveda/894
- शृण्वे वृष्टेरिव स्वनः पवमानस्य शुष्मिण: । चरन्ति विद्युतो दिवि ॥ - Rigveda/9/41/3
- शृतं त्वा हव्यमुप सीदन्तु दैवा निःसृप्याग्नेः पुनरेनान्प्र सीद। सोमेन पूतो जठरे सीद ब्रह्मणामार्षेयास्ते मा रिषन्प्राशितारः ॥ - Atharvaveda/11/1/0/25
- शृतं यदा करसि जातवेदोऽथेमेनं परि दत्तात्पितृभ्य: । यदा गच्छात्यसुनीतिमेतामथा देवानां वशनीर्भवाति ॥ - Rigveda/10/16/2
- शृतमजं शृतया प्रोर्णुहि त्वचा सर्वैरङ्गैः संभृतं विश्वरूपम्। स उत्तिष्ठेतो अभि नाकमुत्तमं पद्भिश्चतुर्भिः प्रति तिष्ठ दिक्षु ॥ - Atharvaveda/4/14/0/9
- शेरभक शेरभ पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः। यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥ - Atharvaveda/2/24/0/1
- शेवारे वार्या पुरु देवो मर्ताय दाशुषे । स सुन्वते च स्तुवते च रासते विश्वगूर्तो अरिष्टुतः ॥ - Rigveda/8/1/22
- शेवृधक शेवृध पुनर्वो यन्तु यातवः पुनर्हेतिः किमीदिनः। यस्य स्थ तमत्त यो वः प्राहैत्तमत्त स्वा मांसान्यत्त ॥ - Atharvaveda/2/24/0/2
- शेषन्नु त इन्द्र सस्मिन्योनौ प्रशस्तये पवीरवस्य मह्ना। सृजदर्णांस्यव यद्युधा गास्तिष्ठद्धरी धृषता मृष्ट वाजान् ॥ - Rigveda/1/174/4
- शेषे वनेषु मातृषु सं त्वा मर्तास इन्धते । अतन्द्रो हव्यं वहसि हविष्कृत आदिद्देवेषु राजसि ॥४६॥ - Samveda/46
- शेषे वनेषु मात्रोः सं त्वा मर्तास इन्धते । अतन्द्रो हव्या वहसि हविष्कृत आदिद्देवेषु राजसि ॥ - Rigveda/8/60/15
- शैशिरावेनंमासावूर्ध्वाया दिशो गोपायतो द्यौश्चादित्यश्चानु तिष्ठतो य एवं वेद॥ - Atharvaveda/15/4/0/18
- शैशिरेणऽऋतुना देवास्त्रयस्त्रिँशे मृता स्तुताः । सत्येन रेवतीः क्षत्रँ हविरिन्द्रे वयो दधुः ॥ - Yajurveda/21/28
- शैशिरौ मासौगोप्तारावकुर्वन्दिवं चादित्यं चानुष्ठातारौ ॥ - Atharvaveda/15/4/0/17
- शोचयामसि ते हार्दिं शोचयामसि ते मनः। वातं धूम इव सध्र्यङ्मामेवान्वेतु ये मनः ॥ - Atharvaveda/6/89/0/2
- शोचा शोचिष्ठ दीदिहि विशे मयो रास्व स्तोत्रे महाँ असि । देवानां शर्मन्मम सन्तु सूरय: शत्रूषाह: स्वग्नय: ॥ - Rigveda/8/60/6
- श्नथद्वृत्रमुत सनोति वाजमिन्द्रा यो अग्नी सहुरी सपर्यात्। इरज्यन्ता वसव्यस्य भूरेः सहस्तमा सहसा वाजयन्ता ॥१॥ - Rigveda/6/60/1
- श्याममयोऽस्य मांसानि लोहितमस्य लोहितम् ॥ - Atharvaveda/11/3/0/7
- श्यामश्च त्वा मा शबलश्च प्रेषितौ यमस्य यौ पथिरक्षी श्वानौ। अर्वाङेहि मा वि दीध्यो मात्र तिष्ठः पराङ्मनाः ॥ - Atharvaveda/8/1/0/9
- श्यामा सरूपंकरणी पृथिव्या अध्युद्भृता। इदमू षु प्र साधय पुना रूपाणि कल्पय ॥ - Atharvaveda/1/24/0/4
- श्यावदता कुनखिना बण्डेन यत्सहासिम। अपामार्ग त्वया वयं सर्वं तदप मृज्महे ॥ - Atharvaveda/7/65/0/3
- श्यावाश्वं कृष्णमसितं मृणन्तं भीमं रथं केशिनः पादयन्तम्। पूर्वे प्रतीमो नमो अस्त्वस्मै ॥ - Atharvaveda/11/2/0/18
- श्यावाश्वस्य रेभतस्तथा शृणु यथाशृणोरत्रे: कर्माणि कृण्वतः । प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र क्षत्राणि वर्धयन् ॥ - Rigveda/8/37/7
- श्यावाश्वस्य सुन्वतस्तथा शृणु यथाशृणोरत्रे: कर्माणि कृण्वतः । प्र त्रसदस्युमाविथ त्वमेक इन्नृषाह्य इन्द्र ब्रह्माणि वर्धयन् ॥ - Rigveda/8/36/7
- श्यावाश्वस्य सुन्वतोऽत्रीणां शृणुतं हवम् । इन्द्राग्नी सोमपीतये ॥ - Rigveda/8/38/8
- श्येन आसामदितिः कक्ष्यो३ मदो विश्ववारस्य यजतस्य मायिनः। समन्यमन्यमर्थयन्त्येतवे विदुर्विषाणं परिपानमन्ति ते ॥११॥ - Rigveda/5/44/11
- श्येनः क्रोडोन्तरिक्षं पाजस्यं बृहस्पतिः ककुद्बृहतीः कीकसाः ॥ - Atharvaveda/9/7/0/5
- श्येनाविव पतथो हव्यदातये सोमं सुतं महिषेवाव गच्छथः । सजोषसा उषसा सूर्येण च त्रिर्वर्तिर्यातमश्विना ॥ - Rigveda/8/35/9
- श्येनीपती सा ॥ - Atharvaveda/20/129/0/19
- श्येनो न योनिं सदनं धिया कृतं हिरण्ययमासदं देव एषति । ए रिणन्ति बर्हिषि प्रियं गिराश्वो न देवाँ अप्येति यज्ञिय: ॥ - Rigveda/9/71/6
- श्येनो नृचक्षा दिव्यः सुपर्णः सहस्रपाच्छतयोनिर्वयोधाः। स नो नि यच्छाद्वसु यत्पराभृतमस्माकमस्तु पितृषु स्वधावत् ॥ - Atharvaveda/7/41/0/2
- श्येनो हव्यं नयत्वा परस्मादन्यक्षेत्रे अपरुद्धं चरन्तम्। अश्विना पन्थां कृणुतां सुगं त इमं सजाता अभिसंविशध्वम् ॥ - Atharvaveda/3/3/0/4