अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 11
सं चो॑दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे॑ण्यम्। अस॒दित्ते॑ वि॒भु प्र॒भु ॥
स्वर सहित पद पाठसम् । चो॒द॒य॒ । चि॒त्रम् । अ॒र्वाक् । राध॑: । इ॒न्द्र॒ । वरे॑ण्यम् ॥ अस॑त् । इत् । ते॒ । वि॒ऽभु । प्र॒ऽभु ॥७१.११॥
स्वर रहित मन्त्र
सं चोदय चित्रमर्वाग्राध इन्द्र वरेण्यम्। असदित्ते विभु प्रभु ॥
स्वर रहित पद पाठसम् । चोदय । चित्रम् । अर्वाक् । राध: । इन्द्र । वरेण्यम् ॥ असत् । इत् । ते । विऽभु । प्रऽभु ॥७१.११॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 11
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ११−(सम्) सम्यक् (चोदय) प्रेरय। प्रापय (चित्रम्) अद्भुतम् (अर्वाक्) अभिमुखम् (राधः) सिद्धिकरं धनम् (इन्द्र) परमैश्वर्यवन् जगदीश्वर (वरेण्यम्) वृञ एण्यः। उ० ३।६८। वृञ् वरणे-एण्य। अतिश्रेष्ठम् (असत्) लडर्थे लेट्। अस्ति (इत्) एव (ते) तव (विभु) व्यापकम् (प्रभु) प्रबलं सामर्थ्यम् ॥
इस भाष्य को एडिट करें