अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 2
स॑मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ। विप्रा॑सो वा धिया॒यवः॑ ॥
स्वर सहित पद पाठस॒म्ऽओ॒हे । वा॒ । ये । आश॑त । नर॑: । तो॒कस्य॑ । सनि॑तौ ॥ विप्रा॑स: । वा॒ । धि॒या॒ऽयव॑: ॥७१.२॥
स्वर रहित मन्त्र
समोहे वा य आशत नरस्तोकस्य सनितौ। विप्रासो वा धियायवः ॥
स्वर रहित पद पाठसम्ऽओहे । वा । ये । आशत । नर: । तोकस्य । सनितौ ॥ विप्रास: । वा । धियाऽयव: ॥७१.२॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 2
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २−(समोहे) सम्+उहिर् अर्दने-घञ्। संग्रामे-निघ० २।१७। (वा) चार्थे (ये) (आशत) अशू व्याप्तौ-लुङ्, च्लेर्लोपः, आडागमः। व्याप्ता अभवन् (नरः) नेतारः (तोकस्य) अ० १।१३।२। तु वृद्धौ पूर्त्तौ च-कप्रत्ययः। सन्तानस्य-निघ० २।२। (सनितौ) षण सम्भक्तौ-क्तिन्। तितुत्रेष्वग्रहादीनामिति वक्तव्यम्। वा० पा० ७।२।९। इडागमः। सेवने। पोषणाध्यापनादौ (विप्रासः) विप्राः। मेधाविनः (वा) चार्थे (धियायवः) धि धारणे-कप्रत्ययः, टाप्। धीयते धार्यते सा धिया प्रज्ञा, ततः क्यच्, उप्रत्ययः। बुद्धिकामाः ॥
इस भाष्य को एडिट करें