अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 8
एमे॑नं सृजता सु॒ते म॒न्दिमिन्द्रा॑य म॒न्दिने॑। चक्रिं॒ विश्वा॑नि॒ चक्र॑ये ॥
स्वर सहित पद पाठआ । ई॒म् । ए॒न॒म् । सृ॒ज॒त॒ । सु॒ते । म॒न्दिम् । इन्द्रा॑य । म॒न्दिने॑ ॥ चक्रि॑म् । विश्वा॑नि । चक्र॑ये ॥७१.८॥
स्वर रहित मन्त्र
एमेनं सृजता सुते मन्दिमिन्द्राय मन्दिने। चक्रिं विश्वानि चक्रये ॥
स्वर रहित पद पाठआ । ईम् । एनम् । सृजत । सुते । मन्दिम् । इन्द्राय । मन्दिने ॥ चक्रिम् । विश्वानि । चक्रये ॥७१.८॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 8
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ८−(आ) समन्तात् (ईम्) प्राप्तव्यं बोधम् (एनम्) प्रसिद्धम् (सृजत) उत्पादयत। सम्पादयत (सुते) उत्पन्ने जगति (मन्दिम्) खनिकष्यञ्ज्यसिवसि०-उ० ४।१४०। मदि स्तुतिमोदमदस्वप्नकान्तिगतिषु-इप्रत्ययः। आनन्दयितारम् (इन्द्राय) परमैश्वर्यवते मनुष्याय (मन्दिने) अ० २०।१७।४। मोदयित्रे (चक्रिम्) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। डुकृञ् करणे-किन्प्रत्ययः। कार्यकर्तारम् (विश्वानि) सर्वाणि कर्माणि अस्य चक्रये इति कृदन्तेन योगेऽपि। न लोकाव्ययनिष्ठाखलर्थतृनाम्। पा० २।३।६९। किकिनौ लिट् चेति किकिनोर्लिड्वद्भावेन षष्ठीनिषेधे द्वितीया (चक्रये) करोतेः किन् पूर्ववत्। कृतवते ॥
इस भाष्य को एडिट करें