अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 15
वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय॑म्। होम॒ गन्ता॑रमू॒तये॑ ॥
स्वर सहित पद पाठवसो॑: । इन्द्र॑म् । वसु॑ऽपतिम् । गी॒ऽभि: । गृ॒णन्त॑: । ऋ॒ग्मिय॑म् ॥ होम॑ । गन्ता॑रम् । ऊ॒तये॑ ॥७१.१५॥
स्वर रहित मन्त्र
वसोरिन्द्रं वसुपतिं गीर्भिर्गृणन्त ऋग्मियम्। होम गन्तारमूतये ॥
स्वर रहित पद पाठवसो: । इन्द्रम् । वसुऽपतिम् । गीऽभि: । गृणन्त: । ऋग्मियम् ॥ होम । गन्तारम् । ऊतये ॥७१.१५॥
अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 15
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १−(वसोः) श्रेष्ठगुणस्य (इन्द्रम्) परमैश्वर्यवन्तं परमेश्वरम् (वसुपतिम्) अष्टवसूनामग्निपृथिव्यादीनां स्वामिनम्। अग्निश्च पृथिवी च वायुश्चान्तरिक्षं चादित्यश्च द्यौश्च चन्द्रमाश्च नक्षत्राणि चैते वसवः-दयानन्दभाष्ये, ऋक्० १।९।९। (गीर्भिः) वेदवाणीभिः (गृणन्तः) स्तुवन्तः (ऋग्मियम्) अर्त्तिस्तुसुहु०। उ० १।१४०। ऋच स्तुतौ-मक्, कुत्वं जश्त्वं च, ऋग्म, स्तुतिः, तदर्हति ऋग्मियः। पात्राद्घंश्च। पा० ।१।६८। अर्हार्थे-घन्, यद्वा बाहुलकात् घच्। ऋग्मियमृग्मन्तमिति वार्चनीयमिति वा पूजनीयमिति वा-निरु० ७।२६। स्तुतियोग्यम् (होम) ह्वेञ् स्पर्धायां शब्दे च-लङ्। बहुलं छन्दसि। पा० २।४।७३। शपो लुक्। छन्दस्युभयथा। ३।४।११७। उभयसंज्ञात्वे गुणसम्प्रसारणे, सकारलोपश्छान्दसः। आह्वयामः (गन्तारम्) गच्छतेः-तृन्। ज्ञातारम् (ऊतये) रक्षायै ॥
इस भाष्य को एडिट करें