Loading...
अथर्ववेद > काण्ड 20 > सूक्त 71

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 1
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७१

    म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे॑। द्यौर्न प्र॑थि॒ना शवः॑ ॥

    स्वर सहित पद पाठ

    म॒हान् । इन्द्र॑: । प॒र: । च॒ । नु । म॒हि॒ऽत्वम् । अ॒स्तु॒ । व॒ज्रिणे॑ । द्यौ: । न । प्र॒थि॒ना । शव॑: ॥७१.१॥


    स्वर रहित मन्त्र

    महाँ इन्द्रः परश्च नु महित्वमस्तु वज्रिणे। द्यौर्न प्रथिना शवः ॥

    स्वर रहित पद पाठ

    महान् । इन्द्र: । पर: । च । नु । महिऽत्वम् । अस्तु । वज्रिणे । द्यौ: । न । प्रथिना । शव: ॥७१.१॥

    अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 1

    टिप्पणीः - मन्त्र १-६ ऋग्वेद में हैं-२।८।-१० और म० १-साम०-पू० २।८।२ ॥ १−(महान्) शुभगुणैः पूजनीयः (इन्द्रः) परमैश्वर्यवान् जगदीश्वरः (परः) उत्कृष्टः (च) (नु) अस्मात् कारणात् (महित्वम्) सर्वधातुभ्य इन्। उ० ४।१८। मह पूजायाम्-इन्, भावे त्वप्रत्ययः। महत्वम् (अस्तु) (वज्रिणे) तस्मै महापराक्रमिणे परमेश्वराय (द्यौः) सूर्यप्रकाशः (न) यथा (प्रथिना) पृथु-इमनिच्, मकारलोपः। प्रथिम्ना। विस्तारेण (शवः) बलम् ॥

    इस भाष्य को एडिट करें
    Top