Loading...
अथर्ववेद > काण्ड 20 > सूक्त 71

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 3
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७१

    यः कु॒क्षिः सो॑म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते। उ॒र्वीरापो॒ न का॒कुदः॑ ॥

    स्वर सहित पद पाठ

    य: । कु॒क्षि: । सो॒म॒ऽपात॑म: । स॒मु॒द्र:ऽइ॑व । पिन्व॑ते ॥ उ॒र्वी: । आप॑: । न । का॒कुद॑: ॥७१.३॥


    स्वर रहित मन्त्र

    यः कुक्षिः सोमपातमः समुद्र इव पिन्वते। उर्वीरापो न काकुदः ॥

    स्वर रहित पद पाठ

    य: । कुक्षि: । सोमऽपातम: । समुद्र:ऽइव । पिन्वते ॥ उर्वी: । आप: । न । काकुद: ॥७१.३॥

    अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 3

    टिप्पणीः - म० ४-६ आचुके हैं अ० २०।६०।४-६ ॥ ३−(यः) पुरुषः (कुक्षिः) प्लुषिकुषिशुषिभ्यः क्सिः। उ० ३।१। कुष निष्कर्षे-क्सि। तत्त्वनिष्कर्षकः (सोमपातमः) अतिशयेनैश्वर्यरक्षकः (समुद्रः) उदधिः (इव) यथा (पिन्वते) सिञ्चति (उर्वीः) पृथिवीः (आपः) आपः कर्माख्यायां ह्रस्वो नुट् च वा। उ० ४।२०८। आप्नोतेः-असुन्। शुभकर्म (न) यथा (काकुदः) सम्पदादिभ्यः क्विप्। वा० पा० ३।३।९४। कै शब्दे-क्विप्+कु शब्दे-क्विप्, तुगागमः, तकारस्य दः। कां शब्दनं कौति वदति सा काकुत्। काकुत् इति वाङ्नाम-निघ० १।११। तदधीते तद् वेद। पा० ४।२।९। काकुद्-अण्। वेदवाणीवेत्ता ॥

    इस भाष्य को एडिट करें
    Top