Loading...
अथर्ववेद > काण्ड 20 > सूक्त 71

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 20/ सूक्त 71/ मन्त्र 16
    सूक्त - मधुच्छन्दाः देवता - इन्द्रः छन्दः - गायत्री सूक्तम् - सूक्त-७१

    सु॒तेसु॑ते॒ न्योकसे बृ॒हद्बृ॑ह॒त एद॒रिः। इन्द्रा॑य शू॒षम॑र्चति ॥

    स्वर सहित पद पाठ

    सु॒तेऽसु॑ते । निऽओ॑कसे । बृ॒हत् । बृ॒ह॒ते ।आ । इत् । अ॒रि: ॥ इन्द्रा॑य । शू॒षम् । अ॒र्च॒ति॒ ॥७१.१६॥


    स्वर रहित मन्त्र

    सुतेसुते न्योकसे बृहद्बृहत एदरिः। इन्द्राय शूषमर्चति ॥

    स्वर रहित पद पाठ

    सुतेऽसुते । निऽओकसे । बृहत् । बृहते ।आ । इत् । अरि: ॥ इन्द्राय । शूषम् । अर्चति ॥७१.१६॥

    अथर्ववेद - काण्ड » 20; सूक्त » 71; मन्त्र » 16

    टिप्पणीः - इति षष्ठोऽनुवाकः ॥ १६−(सुते-सुते) उत्पन्न उत्पन्ने पदार्थे (न्योकसे) अञ्च्यञ्जियुजिभृजिभ्यः कुश्च। उ० ४।२१६। उच समवाये-असुन्, न्यङ्कादित्वात् कुत्वम्। ओक इति निवासनामोच्यते-निरु० २।३।६२। निश्चितनिवासयुक्तस्य (बृहत्) वर्धमानम् (बृहते) महतः (आ) समन्तात् (इत्) एव (अरिः) शत्रुः (इन्द्राय) परमैश्वर्यवतः परमेश्वरस्य (शूषम्) पीयेरूषन्। उ० ४।७६। शुष शोषणे-ऊषन् ङित्। शत्रुशोषकं बलम् निघ० २।९०। (अर्चति) पूजयति ॥

    इस भाष्य को एडिट करें
    Top