1924 परिणाम मिले!
- स्वायुधः सोतृभि: पूयमानोऽभ्यर्ष गुह्यं चारु नाम । अभि वाजं सप्तिरिव श्रवस्याभि वायुमभि गा देव सोम ॥ - Rigveda/9/96/16
- स्वायुधं स्ववसं सुनीथं चतु:समुद्रं धरुणं रयीणाम् । चर्कृत्यं शंस्यं भूरिवारमस्मभ्यं चित्रं वृषणं रयिं दा: ॥ - Rigveda/10/47/2
- स्वायुधस्य ते सतो भुवनस्य पते वयम् । इन्दो सखित्वमुश्मसि ॥ - Rigveda/9/31/6
- स्वायुधास इष्मिणः सुनिष्का उत स्वयं तन्वः१ शुम्भमानाः ॥११॥ - Rigveda/7/56/11
- स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी । विश्वे देवा अनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥ - Rigveda/10/12/3
- स्वावृग्देवस्यामृतं यदी गोरतो जातासो धारयन्त उर्वी। विश्वे देवाअनु तत्ते यजुर्गुर्दुहे यदेनी दिव्यं घृतं वाः ॥ - Atharvaveda/18/1/0/32
- स्वासदसि सूषाअमृतो मर्त्येश्वा ॥ - Atharvaveda/16/4/0/2
- स्वासस्थेभवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः। वि श्लोक एतिपथ्येव सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥ - Atharvaveda/18/3/0/39
- स्वाहा पूष्णे शरसे स्वाहा ग्रावभ्यः स्वाहा प्रतिरवेभ्यः स्वाहा पितृभ्यऽऊर्ध्वबर्हिर्भ्या घर्मपावभ्यः स्वाहा द्यावापृथिवीभ्याँ स्वाहा विश्वेभ्यः देवेभ्यः ॥ - Yajurveda/38/15
- स्वाहा मरुद्भिः परिश्रीयस्व । दिवः सँस्पृशस्पाहि । मधु मधु मधु ॥ - Yajurveda/37/13
- स्वाहा यज्ञं कृणोतनेन्द्राय यज्वनो गृहे। तत्र देवाँ उप ह्वये॥ - Rigveda/1/13/12
- स्वाहा यज्ञम्मनसः स्वाहोरोरन्तरिक्षात्स्वाहा द्यावापृथिवीभ्याँस्वाहा वातादा रभे स्वाहा ॥ - Yajurveda/4/6
- स्वाहा यज्ञँवरुणः सुक्षत्रो भेषजङ्करत् । अतिच्छन्दा इन्द्रियम्बृहदृषभो गौर्वयो दधुः ॥ - Yajurveda/21/22
- स्वाहा रुद्राय रुद्रहूतये । स्वाहा सञ्ज्योतिषा ज्योतिः अहः केतुना जुषताँ सुज्योतिर्ज्यातिषा स्वाहा । रात्रिः केतुना जुषताँ सुज्योतिर्ज्यातिषा स्वाहा । मधु हुतमिन्द्रतमेऽअग्नावश्याम ते देव घर्म नमस्तेऽअस्तु मा मा हिँसीः॥ - Yajurveda/38/16
- स्वाहाकारेणान्नादेनान्नमत्ति य एवं वेद ॥ - Atharvaveda/15/14/0/16
- स्वाहाकृतः शुचिर्देवेषु यज्ञो यो अश्विनोश्चमसो देवपानः। तमु विश्वे अमृतासो जुषाणा गन्धर्वस्य प्रत्यास्ना रिहन्ति ॥ - Atharvaveda/7/73/0/3
- स्वाहाकृतस्य तृम्पतं सुतस्य देवावन्धसः । आ यातमश्विना गतमवस्युर्वामहं हुवे धत्तं रत्नानि दाशुषे ॥ - Rigveda/8/35/24
- स्वाहाकृतान्या गह्युप हव्यानि वीतये। इन्द्रा गहि श्रुधी हवं त्वां हवन्ते अध्वरे ॥ - Rigveda/1/142/13
- स्वाहाग्नये वरुणाय स्वाहेन्द्राय मरुद्भ्यः। स्वाहा देवेभ्यो हविः ॥११॥ - Rigveda/5/5/11
- स्वाहाप्राणेभ्यः साधिपतिकेभ्यः पृथिव्यै स्वाहेग्नये स्वाहेन्तरिक्षाय स्वाहा वायवे स्वाहा । दिवे स्वाहा । सूर्याय स्वाहा ॥ - Yajurveda/39/1
- स्विध्मा यद्वनधितिरपस्यात्सूरो अध्वरे परि रोधना गोः। यद्ध प्रभासि कृत्व्याँ अनु द्यूननर्विशे पश्विषे तुराय ॥ - Rigveda/1/121/7
- स्वैर्दक्षैर्दक्षपितेह सीद देवानाँ सुम्ने बृहते रणाय । पितेवैधि सूनवऽआ सुशेवा स्वावेशा तन्वा सँविशस्वाश्विनाध्वर्यू सादयतामिह त्वा ॥ - Yajurveda/14/3
- स्वर्यद्वेदि सुदृशीकमर्कैर्महि ज्योती रुरुचुर्यद्ध वस्तोः। अन्धा तमांसि दुधिता विचक्षे नृभ्यश्चकार नृतमो अभिष्टौ ॥ - Atharvaveda/20/77/0/4
- स्वर्यन्तो नापेक्षन्त आ द्यां रोहन्ति रोदसी। यज्ञं ये विश्वतोधारं सुविद्वांसो वितेनिरे ॥ - Atharvaveda/4/14/0/4