1116 परिणाम मिले!
- वरुणो मित्रो अर्यमा स्मद्रातिषाचो अग्नय: । पत्नीवन्तो वषट्कृताः ॥ - Rigveda/8/28/2
- वरुणो याति वस्वभिः ॥ - Atharvaveda/20/131/0/3
- वरुणोऽपामधिपतिः स मावतु। अस्मिन्ब्रह्मण्यस्मिन्कर्मण्यस्यां पुरोधायामस्यां प्रतिष्ठायामस्यां चित्त्यामस्यामाकूत्यामस्यामाशिष्यस्यां देवहूत्यां स्वाहा ॥ - Atharvaveda/5/24/0/4
- वरूत्रीन्त्वष्टुर्वरुणस्य नाभिमविञ्जज्ञानाँ रजसः परस्मात् । महीँ साहस्रीमसुरस्य मायामग्ने मा हिँसीः पर्मे व्योमन् ॥ - Yajurveda/13/44
- वरेथे अग्निमातपो वदते वल्ग्वत्रये । अन्ति षद्भूतु वामव: ॥ - Rigveda/8/73/8
- वर्च आ धेहि मे तन्वां सह ओजो वयो बलम्। इन्द्रियाय त्वा कर्मणे वीर्याय प्रति गृह्णामि शतशारदाय ॥ - Atharvaveda/19/37/0/2
- वर्चसा मांपितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन। चक्षुषे मा प्रतरंतारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥ - Atharvaveda/18/3/0/10
- वर्चसा मांसमनक्त्वग्निर्मेधां मे विष्णुर्न्यनक्त्वासन्। रयिं मे विश्वे नियच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥ - Atharvaveda/18/3/0/11
- वर्चसो द्यावापृथिवी संग्रहणी बभूवथुर्वर्चो गृहीत्वा पृथिवीमनु सं चरेम। यशसं गावो गोपतिमुप तिष्ठन्त्यायतीर्यशो गृहीत्वा पृथिवीमनु सं चरेम ॥ - Atharvaveda/19/58/0/3
- वर्धन्तीमापः पन्वा सुशिश्विमृतस्य योना गर्भे सुजातम् ॥ - Rigveda/1/65/4
- वर्धस्वा सु पुरुष्टुत ऋषिष्टुताभिरूतिभि: । धुक्षस्व पिप्युषीमिषमवा च नः ॥ - Rigveda/8/13/25
- वर्धाद्यं यज्ञ उत सोम इन्द्रं वर्धाद्ब्रह्म गिर उक्था च मन्म। वर्धाहैनमुषसो यामन्नक्तोर्वर्धान्मासाः शरदो द्याव इन्द्रम् ॥४॥ - Rigveda/6/38/4
- वर्धान्यं पूर्वीः क्षपो विरूपाः स्थातुश्च रथमृतप्रवीतम् ॥ - Rigveda/1/70/7
- वर्धान्यं विश्वे मरुतः सजोषाः पचच्छतं महिषाँ इन्द्र तुभ्यम्। पूषा विष्णुस्त्रीणि सरांसि धावन्वृत्रहणं मदिरमंशुमस्मै ॥११॥ - Rigveda/6/17/11
- वर्म मह्यमयं मणिः फालाज्जातः करिष्यति। पूर्णो मन्थेन मागमद्रसेन सह वर्चसा ॥ - Atharvaveda/10/6/0/2
- वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः। वर्म म इन्द्रश्चाग्निश्च वर्म धाता दधातु मे ॥ - Atharvaveda/8/5/0/18
- वर्म मे द्यावापृथिवी वर्माहर्वर्म सूर्यः। वर्म मे विश्वे देवाः क्रन्मा मा प्रापत्प्रतीचिका ॥ - Atharvaveda/19/20/0/4
- वर्ये वन्दे सुभगे सुजात आजगन्रात्रि सुमना इह स्याम्। अस्मांस्त्रायस्व नर्याणि जाता अथो यानि गव्यानि पुष्ठ्या ॥ - Atharvaveda/19/49/0/3
- वर्षं वनुष्वापि गच्छ देवांस्त्वचो धूमं पर्युत्पातयासि। विश्वव्यचा घृतपृष्ठो भविष्यन्त्सयोनिर्लोकमुप याह्येतम् ॥ - Atharvaveda/12/3/0/53
- वर्षमाज्यं घ्रंसो अग्निर्वेदिर्भूमिरकल्पत। तत्रैतान्पर्वतानग्निर्गीर्भिरूर्ध्वाँ अकल्पयत् ॥ - Atharvaveda/13/1/0/53
- वर्षाभिरृतुनादित्या स्तोमे सप्तदशे स्तुताः । वैरूपेण विशौजसा हविरिन्द्रे वयो दधुः ॥ - Yajurveda/21/25
- वर्षाहूरृतूनामाखुः कशो मान्थालस्ते पितऋृणाम्बलायाजगरो वसूनाङ्कपिञ्जलः कपोत उलूकः शशस्ते निरृत्यै वरुणायारण्यो मेषः ॥ - Yajurveda/24/38
- वर्षिष्ठक्षत्रा उरुचक्षसा नरा राजाना दीर्घश्रुत्तमा । ता बाहुता न दंसना रथर्यतः साकं सूर्यस्य रश्मिभि: ॥ - Rigveda/8/101/2
- ववक्ष इन्द्रो अमितमृजिष्युभे आ पप्रौ रोदसी महित्वा। अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥ - Atharvaveda/20/77/0/5
- ववक्ष इन्द्रो अमितमृजीष्यु१भे आ पप्रौ रोदसी महित्वा। अतश्चिदस्य महिमा वि रेच्यभि यो विश्वा भुवना बभूव ॥५॥ - Rigveda/4/16/5
- ववक्षुरस्य केतवो उत वज्रो गभस्त्योः । यत्सूर्यो न रोदसी अवर्धयत् ॥ - Rigveda/8/12/7
- वव्राजा सीमनदतीरदब्धा दिवो यह्वीरवसाना अनग्नाः। सना अत्र युवतयः सयोनीरेकं गर्भं दधिरे सप्त वाणीः॥ - Rigveda/3/1/6
- वव्रासो न ये स्वजाः स्वतवस इषं स्वरभिजायन्त धूतयः। सहस्रियासो अपां नोर्मय आसा गावो वन्द्यासो नोक्षण: ॥ - Rigveda/1/168/2
- वशा चरन्ती बहुधा देवानां निहितो निधिः। आविष्कृणुष्व रूपाणि यदा स्थाम जिघांसति ॥ - Atharvaveda/12/4/0/29
- वशा दग्धामिमाङ्गुरिं प्रसृजतोग्रतं परे। महान्वै भद्रो यभ मामद्ध्यौदनम् ॥ - Atharvaveda/20/136/0/13
- वशां देवा उप जीवन्ति वशां मनुष्या उत। वशेदं सर्वमभवद्यावत्सूर्यो विपश्यति ॥ - Atharvaveda/10/10/0/34
- वशा द्यौर्वशा पृथिवी वशा विष्णुः प्रजापतिः। वशाया दुग्धमपिबन्त्साध्या वसवश्च ये ॥ - Atharvaveda/10/10/0/30
- वशा माता राजन्यस्य तथा संभूतमग्रशः। तस्या आहुरनर्पणं यद्ब्रह्मभ्यः प्रदीयते ॥ - Atharvaveda/12/4/0/33
- वशा माता राजन्यस्य वशा माता स्वधे तव। वशाया यज्ञ आयुधं ततश्चित्तमजायत ॥ - Atharvaveda/10/10/0/18
- वशा यज्ञं प्रत्यगृह्णाद्वशा सूर्यमधारयत्। वशायामन्तरविशदोदनो ब्रह्मणा सह ॥ - Atharvaveda/10/10/0/25
- वंशानां ते नहनानां प्राणाहस्य तृणस्य च। पक्षाणां विश्ववारे ते नद्धानि वि चृतामसि ॥ - Atharvaveda/9/3/0/4
- वशामेवामृतमाहुर्वशां मृत्युमुपासते। वशेदं सर्वमभवद्देवा मनुष्या असुराः पितर ऋषयः ॥ - Atharvaveda/10/10/0/26
- वशाया दुग्धं पीत्वा साध्या वसवश्च ये। ते वै ब्रध्नस्य विष्टपि पयो अस्या उपासते ॥ - Atharvaveda/10/10/0/31
- वशायाः पुत्रमा यन्ति ॥ - Atharvaveda/20/130/0/15
- वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभिः सदा नः ॥१६२७॥ - Samveda/1627
- वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/99/7
- वषट् ते विष्णवास आ कृणोमि तन्मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/100/7
- वषट्कारेणान्नादेनान्नमत्ति य एवं वेद ॥ - Atharvaveda/15/14/0/18
- वषट्ते पूषन्नस्मिन्त्सूतावर्यमा होता कृणोतु वेधाः। सिस्रतां नार्यृतप्रजाता वि पर्वाणि जिहतां सूतवा उ ॥ - Atharvaveda/1/11/0/1
- वषड्ढुतेभ्यो वषडहुतेभ्यः। देवा गातुविदो गातुं वित्त्वा गातुमित ॥ - Atharvaveda/7/97/0/7
- वंसगेव पूषर्या शिम्बाता मित्रेव ऋता शतरा शातपन्ता । वाजेवोच्चा वयसा घर्म्येष्ठा मेषेवेषा सपर्या३ पुरीषा ॥ - Rigveda/10/106/5
- वसन्त इन्नु रन्त्यो ग्रीष्म इन्नु रन्त्यः । वर्षाण्यनु शरदो हेमन्तः शिशिर इन्नु रन्त्यः ॥६१६ - Samveda/616
- वसन्ताय कपिञ्जलाना लभते ग्रीष्माय कलविङ्गान्वर्षाभ्यस्तित्तिरीञ्छरदे वर्तिका हेमन्ताय ककराञ्छिशिराय विककरान् ॥ - Yajurveda/24/20
- वसन्तेनऽऋतुना देवा वस्ववस्त्रिवृता स्तुताः । रथन्तरेण तेजसा हविरिन्द्रे वयो दधुः ॥ - Yajurveda/21/23
- वसवस्त्रयोदशाक्षरेण त्रयोदशँ स्तोममुदजयँस्तमुज्जेषँ रुद्राश्चतुर्दशाक्षरेण चतुर्दशँ स्तोममुदजयँस्तमुज्जेषमादित्याः पञ्चदशाक्षरेण पञ्चदशँ स्तोममुदजयँस्तमुज्जेषमदितिः षोडशाक्षरेण षोडशँ स्तोममुदजयत्तमुज्जेषम्प्रजापतिः सप्तदशाक्षरेण सप्तदशँ स्तोममुदजयत्तमुज्जेषम् ॥ - Yajurveda/9/34