1896 परिणाम मिले!
- तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा । वृषपत्नीरपो जया दिवेदिवे ॥८८२॥ - Samveda/882
- तदद्या चित्त उक्थिनोऽनु ष्टुवन्ति पूर्वथा। वृषपत्नीरपो जया दिवेदिवे ॥ - Atharvaveda/20/61/0/3
- तदन्नाय तदपसे तं भागमुपसेदुषे । त्रिताय च द्विताय चोषो दुष्ष्वप्न्यं वहानेहसो व ऊतय: सुतयो व ऊतय: ॥ - Rigveda/8/47/16
- तदमुष्मा अग्नेदेवाः परा वहन्तु वघ्रिर्यथासद्विथुरो न साधुः ॥ - Atharvaveda/16/6/0/11
- तदश्विना भिषजा रुद्रवर्तनी सरस्वती वयति पेशोऽअन्तरम् । अस्थिमज्जानम्मासरैः कारोतरेण दधतो गवान्त्वचि ॥ - Yajurveda/19/82
- तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम्। अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥ - Atharvaveda/19/11/0/6
- तदस्तु मित्रावरुणा तदग्ने शं योरस्मभ्यमिदमस्तु शस्तम्। अशीमहि गाधमुत प्रतिष्ठां नमो दिवे बृहते सादनाय ॥७॥ - Rigveda/5/47/7
- तदस्मै नव्यमङ्गिरस्वदर्चत शुष्मा यदस्य प्रत्नथोदीरते। विश्वा यद्गोत्रा सहसा परीवृता मदे सोमस्य दृंहितान्यैरयत्॥ - Rigveda/2/17/1
- तदस्य प्रियमभि पाथो अश्यां नरो यत्र देवयवो मदन्ति। उरुक्रमस्य स हि बन्धुरित्था विष्णो: पदे परमे मध्व उत्स: ॥ - Rigveda/1/154/5
- तदस्य रूपममृतँ शचीभिस्तस्रो दधुर्देवताः सँरराणाः । लोमानि शष्पैर्बहुधा न तोक्मभिस्त्वगस्य माँसमभवन्न लाजाः ॥ - Yajurveda/19/81
- तदस्यानीकमुत चारु नामापीच्यं वर्धते नप्तुरपाम्। यमिन्धते युवतयः समित्था हिरण्यवर्णं घृतमन्नमस्य॥ - Rigveda/2/35/11
- तदस्येदं पश्यता भूरि पुष्टं श्रदिन्द्रस्य धत्तन वीर्याय। स गा अविन्दत्सो अविन्ददश्वान्त्स ओषधी: सो अपः स वनानि ॥ - Rigveda/1/103/5
- तदित्सधस्थमभि चारु दीधय गावो यच्छासन्वहतुं न धेनव: । माता यन्मन्तुर्यूथस्य पूर्व्याभि वाणस्य सप्तधातुरिज्जन: ॥ - Rigveda/10/32/4
- तदित्समानमाशाते वेनन्ता न प्र युच्छतः। धृतव्रताय दाशुषे॥ - Rigveda/1/25/6
- तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमाः ॥१४८३॥ - Samveda/1483
- तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यं विश्वे मदन्त्यूमा: ॥ - Rigveda/10/120/1
- तदिदास भुवनेषु ज्येष्ठं यतो जज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो नि रिणाति शत्रूननु यदेनं मदन्ति विश्व ऊमाः ॥ - Atharvaveda/20/107/0/4
- तदिदास भुवनेषु ज्येष्ठं यतो यज्ञ उग्रस्त्वेषनृम्णः। सद्यो जज्ञानो नि रिणाति शत्रूननु यदेनं मदन्ति विश्व ऊमाः ॥ - Atharvaveda/5/2/0/1
- तदिदास भुवनेषु ज्येष्ठँयतो जज्ञऽउग्रस्त्वेषनृम्णः । सद्यो जज्ञानो नि रिणाति शत्रूननु यँविश्वे मदन्त्यूमाः ॥ - Yajurveda/33/80
- तदिद्ध्यस्य सवनं विवेरपो यथा पुरा मनवे गातुमश्रेत् । गोअर्णसि त्वाष्ट्रे अश्वनिर्णिजि प्रेमध्वरेष्वध्वराँ अशिश्रयुः ॥ - Rigveda/10/76/3
- तदिद्रुद्रस्य चेतति यह्वं प्रत्नेषु धामसु । मनो यत्रा वि तद्दधुर्विचेतसः ॥ - Rigveda/8/13/20
- तदिद्वदन्त्यद्रयो विमोचने यामन्नञ्जस्पा इव घेदुपब्दिभि: । वपन्तो बीजमिव धान्याकृत: पृञ्चन्ति सोमं न मिनन्ति बप्सतः ॥ - Rigveda/10/94/13
- तदिन्द्र प्रेव वीर्यं चकर्थ यत्ससन्तं वज्रेणाबोधयोऽहिम्। अनु त्वा पत्नीर्हृषितं वयश्च विश्वे देवासो अमदन्ननु त्वा ॥ - Rigveda/1/103/7
- तदिन्द्राव आ भर येना दंसिष्ठ कृत्वने । द्विता कुत्साय शिश्नथो नि चोदय ॥ - Rigveda/8/24/25
- तदिन्नक्तं तद्दिवा मह्यमाहुस्तदयं केतो हृद आ वि चष्टे। शुनःशेपो यमह्वद्गृभीतः सो अस्मान्राजा वरुणो मुमोक्तु॥ - Rigveda/1/24/12
- तदिन्नु ते करणं दस्म विप्राहिं यद्घ्नन्नोजो अत्रामिमीथाः। शुष्णस्य चित्परि माया अगृभ्णाः प्रपित्वं यन्नप दस्यूँरसेधः ॥७॥ - Rigveda/5/31/7
- तदिन्न्वस्य परिषद्वानो अग्मन्पुरू सदन्तो नार्षदं बिभित्सन् । वि शुष्णस्य संग्रथितमनर्वा विदत्पुरुप्रजातस्य गुहा यत् ॥ - Rigveda/10/61/13
- तदिन्न्वस्य वृषभस्य धेनोरा नामभिर्ममिरे सक्म्यं गोः। अन्यदन्यदसुर्यं१ वसाना नि मायिनो ममिरे रूपमस्मिन्॥ - Rigveda/3/38/7
- तदिन्न्वस्य सवितुर्नकिर्मे हिरण्ययीममतिं यामशिश्रेत्। आ सुष्टुती रोदसी विश्वमिन्वे अपीव योषा जनिमानि वव्रे॥ - Rigveda/3/38/8
- तदिन्मे छन्त्सद्वपुषो वपुष्टरं पुत्रो यज्जानं पित्रोरधीयति । जाया पतिं वहति वग्नुना सुमत्पुंस इद्भद्रो वहतुः परिष्कृतः ॥ - Rigveda/10/32/3
- तदु प्रयक्षतममस्य कर्म दस्मस्य चारुतममस्ति दंसः। उपह्वरे यदुपरा अपिन्वन्मध्वर्णसो नद्य१श्चतस्रः ॥ - Rigveda/1/62/6
- तदु श्रेष्ठं सवनं सुनोतनात्यो न हस्तयतो अद्रि: सोतरि । विदद्ध्य१र्यो अभिभूति पौंस्यं महो राये चित्तरुते यदर्वतः ॥ - Rigveda/10/76/2
- तदू षु ते महत्पृथुज्मन्नमः कविः काव्येना कृणोमि। यत्सम्यञ्चावभियन्तावभि क्षामत्रा मही रोधचक्रे वावृधेते ॥ - Atharvaveda/5/1/0/5
- तदू षु वामेना कृतं विश्वा यद्वामनु ष्टवे। नाना जातावरेपसा समस्मे बन्धुमेयथुः ॥४॥ - Rigveda/5/73/4
- तदूचुषे मानुषेमा युगानि कीर्तेन्यं मघवा नाम बिभ्रत्। उपप्रयन्दस्युहत्याय वज्री यद्ध सूनुः श्रवसे नाम दधे ॥ - Rigveda/1/103/4
- तदृतं पृथिवि बृहच्छ्रवएष ऋषीणाम्। ज्रयसानावरं पृथ्वति क्षरन्ति यामभिः ॥५॥ - Rigveda/5/66/5
- तदेकमभवत्तल्ललाममभवत्तन्महदभवत्तज्ज्येष्ठमभवत्तद्ब्रह्माभवत्तत्तपोऽभवत्तत्सत्यमभवत्तेन प्राजायत ॥ - Atharvaveda/15/1/0/3
- तदेजति तन्नैजति तद्दूरे तद्वन्तिके । तदन्तरस्य सर्वस्य तदु सरवस्यास्य बाह्यतः ॥ - Yajurveda/40/5
- तदेवाग्निस्तदादित्यस्तद्वायुस्तदु चन्द्रमाः । तदेव शुक्रन्तद्ब्रह्म ताऽआपः स प्रजापतिः ॥ - Yajurveda/32/1
- तद्दधाना अवस्यवो युष्माभिर्दक्षपितरः । स्याम मरुत्वतो वृधे ॥ - Rigveda/8/63/10
- तद्देवस्य सवितुर्वार्यं महद्वृणीमहे असुरस्य प्रचेतसः। छर्दिर्येन दाशुषे यच्छति त्मना तन्नो महाँ उदयान्देवो अक्तुभिः ॥१॥ - Rigveda/4/53/1
- तद्देवानां देवतमाय कर्त्वमश्रथ्नन्दृळ्हाव्रदन्त वीळिता। उद्गा आजदभिनद्ब्रह्मणा बलमगूहत्तमो व्यचक्षयत्स्वः॥ - Rigveda/2/24/3
- तद्धि वयं वृणीमहे वरुण मित्रार्यमन् । येना निरंहसो यूयं पाथ नेथा च मर्त्यमति द्विष: ॥ - Rigveda/10/126/2
- तद्बन्धुः सूरिर्दिवि ते धियंधा नाभानेदिष्ठो रपति प्र वेनन् । सा नो नाभि: परमास्य वा घाहं तत्पश्चा कतिथश्चिदास ॥ - Rigveda/10/61/18
- तद्ब्रह्म च तपश्च सप्तऋषय उप जीवन्ति ब्रह्मवर्चस्युपजीवनीयो भवति य एवं वेद ॥ - Atharvaveda/8/10/4/16
- तद्भद्रं तव दंसना पाकाय चिच्छदयति। त्वां यदग्ने पशवः समासते समिद्धमपिशर्वरे॥ - Rigveda/3/9/7
- तद्भद्राः समगच्छन्त वशा देष्ट्र्यथो स्वधा। अथर्वा यत्र दीक्षितो बर्हिष्यास्त हिरण्यये ॥ - Atharvaveda/10/10/0/17
- तद्यस्मा एवं विदुषेऽलाबुनाभिषिञ्चेत्प्रत्याहन्यात् ॥ - Atharvaveda/8/10/6/1
- तद्यस्यैवंविद्वान्व्रात्य उद्धृतेष्वग्निष्वधिश्रितेऽग्निहोत्रेऽतिथिर्गृहानागच्छेत् ॥ - Atharvaveda/15/12/0/1
- तद्यस्यैवंविद्वान्व्रात्य एकां रात्रिमतिथिर्गृहे वसति ॥ - Atharvaveda/15/13/0/1