अथर्ववेद - काण्ड 10/ सूक्त 7/ मन्त्र 22
सूक्त - अथर्वा, क्षुद्रः
देवता - स्कन्धः, आत्मा
छन्दः - उपरिष्टाज्ज्योतिर्जगती
सूक्तम् - सर्वाधारवर्णन सूक्त
यत्रा॑दि॒त्याश्च॑ रु॒द्राश्च॒ वस॑वश्च स॒माहिताः॑। भू॒तं च॒ यत्र॒ भव्यं॑ च॒ सर्वे॑ लो॒काः प्रति॑ष्ठिताः स्क॒म्भं तं ब्रू॑हि कत॒मः स्वि॑दे॒व सः ॥
स्वर सहित पद पाठयत्र॑ । आ॒दि॒त्या: । च॒ । रू॒द्रा: । च॒ । वस॑व: । च॒ । स॒म्ऽआहि॑ता: । भू॒तम् । च॒ । यत्र॑ । भव्य॑म् । च॒ । सर्वे॑ । लो॒का: । प्रति॑ऽस्थिता: । स्क॒म्भम् । तम् । ब्रू॒हि॒ । क॒त॒म: । स्वि॒त् । ए॒व । स: ॥७.२२॥
स्वर रहित मन्त्र
यत्रादित्याश्च रुद्राश्च वसवश्च समाहिताः। भूतं च यत्र भव्यं च सर्वे लोकाः प्रतिष्ठिताः स्कम्भं तं ब्रूहि कतमः स्विदेव सः ॥
स्वर रहित पद पाठयत्र । आदित्या: । च । रूद्रा: । च । वसव: । च । सम्ऽआहिता: । भूतम् । च । यत्र । भव्यम् । च । सर्वे । लोका: । प्रतिऽस्थिता: । स्कम्भम् । तम् । ब्रूहि । कतम: । स्वित् । एव । स: ॥७.२२॥
अथर्ववेद - काण्ड » 10; सूक्त » 7; मन्त्र » 22
मन्त्रार्थ -
(यत्र-आदित्याः च रुद्राः च वसवः च समाहिता:) जिस आधाररूप परमात्मा में द्वादश आदित्य ग्यारह रुद्र और आठ चसु समाश्रित हैं (यत्र - भूतं-च-भव्यं-सर्वे-लोकाः-प्रतिष्ठिताः) जिसमें भूत भविष्यत् और वर्तमान काल तथा सारे लोक वर्त मान हैं (स्कम्भ) पूर्ववत् ॥२२॥
टिप्पणी -
इस सूक्त पर सायणभाष्य नहीं है, परन्तु इस पर टिप्पणी में कहा है कि स्कम्भ इति सनातनतमो देवो "ब्रह्मणो प्याद्यभूतः । अतो ज्येष्ठं ब्रह्म इति तस्य संज्ञा । विराडपि तस्मिन्नेव समाहितः” । अर्थात् स्कम्भ यह अत्यन्त सनातन देव है जो ब्रह्म से भी आदि हैं अतः ज्येष्ठ ब्रह्म यह उसका नाम है विराड् भी उसमें समाहित है । यह सायण का विचार है ॥
विशेष - ऋषिः—अथर्वा ( स्थिर-योगयुक्त ) देवनाः - स्कम्भः, आत्मा वा ( स्कम्भ-विश्व का खम्भा या स्कम्मरूप आत्मा-चेतन तत्त्व-परमात्मा )
इस भाष्य को एडिट करें