543 परिणाम मिले!
- एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥ - Rigveda/9/3/4
- एष विश्वानि वार्या शूरो यन्निव सत्वभिः । पवमानः सिषासति ॥१२५८॥ - Samveda/1258
- एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । अभि द्रोणानि धावति ॥ - Rigveda/9/28/4
- एष वृषा कनिक्रदद्दशभिर्जामिभिर्यतः । अभि द्रोणानि धावति ॥१२८३॥ - Samveda/1283
- एष वृषा वृषव्रत: पवमानो अशस्तिहा । करद्वसूनि दाशुषे ॥ - Rigveda/9/62/11
- एष शुष्म्यदाभ्यः सोमः पुनानो अर्षति । देवावीरघशꣳसहा ॥१२९१॥ - Samveda/1291
- एष शुष्म्यदाभ्य: सोम: पुनानो अर्षति । देवावीरघशंसहा ॥ - Rigveda/9/28/6
- एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरिः । पुनान इन्दुरिन्द्रमा ॥१२९०॥ - Samveda/1290
- एष शुष्म्यसिष्यददन्तरिक्षे वृषा हरि: । पुनान इन्दुरिन्द्रमा ॥ - Rigveda/9/27/6
- एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३ वृषा । नृम्णा दधान ओजसा ॥ - Rigveda/9/15/4
- एष शृङ्गाणि दोधुवच्छिशीते यूथ्यो३वृषा । नृम्णा दधान ओजसा ॥१२७१॥ - Samveda/1271
- एष सुवानः परि सोम: पवित्रे सर्गो न सृष्टो अदधावदर्वा । तिग्मे शिशानो महिषो न शृङ्गे गा गव्यन्नभि शूरो न सत्वा ॥ - Rigveda/9/87/7
- एष सूर्यमरोचयत्पवमानो अधि द्यवि । पवित्रे मत्सरो मदः ॥१२८४ - Samveda/1284
- एष सूर्यमरोचयत्पवमानो विचर्षणिः । विश्वा धामानि विश्ववित् ॥ - Rigveda/9/28/5
- एष सूर्येण हासते पवमानो अधि द्यवि । पवित्रे मत्सरो मद: ॥ - Rigveda/9/27/5
- एष सूर्येण हासते संवसानो विवस्वता । पतिर्वाचो अदाभ्यः ॥१२८५ - Samveda/1285
- एष सोमो अधि त्वचि गवां क्रीळत्यद्रिभिः । इन्द्रं मदाय जोहुवत् ॥ - Rigveda/9/66/29
- एष स्तोम इन्द्र तुभ्यमस्मे एतेन गातुं हरिवो विदो नः। आ नो ववृत्याः सुविताय देव विद्यामेषं वृजनं जीरदानुम् ॥ - Rigveda/1/173/13
- एष स्तोमो अचिक्रदद्वृषा त उत स्तामुर्मघवन्नक्रपिष्ट। रायस्कामो जरितारं त आगन्त्वमङ्ग शक्र वस्व आ शको नः ॥९॥ - Rigveda/7/20/9
- एष स्तोमो मह उग्राय वाहे धुरी३वात्यो न वाजयन्नधायि। इन्द्र त्वायमर्क ईट्टे वसूनां दिवीव द्यामधि नः श्रोमतं धाः ॥५॥ - Rigveda/7/24/5
- एष स्तोमो मारुतं शर्धो अच्छा रुद्रस्य सूनूँर्युवन्यूँरुदश्याः। कामो राये हवते मा स्वस्त्युप स्तुहि पृषदश्वाँ अयासः ॥१५॥ - Rigveda/5/42/15
- एष स्तोमो वरुण मित्र तुभ्यं सोम: शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/64/5
- एष स्तोमो वरुण मित्र तुभ्यं सोम: शुक्रो न वायवेऽयामि । अविष्टं धियो जिगृतं पुरंधीर्यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/65/5
- एष स्य कारुर्जरते सूक्तैरग्रे बुधान उषसां सुमन्मा । इषा तं वर्धदघ्न्या पयोभिर्यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/68/9
- एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब॥ - Rigveda/2/36/5
- एष स्य ते तन्वो नृम्णवर्धनः सह ओजः प्रदिवि बाह्वोर्हितः। तुभ्यं सुतो मघवन्तुभ्यमाभृतस्त्वमस्य ब्राह्मणादा तृपत्पिब ॥ - Atharvaveda/20/67/0/6
- एष स्य ते पवत इन्द्र सोमश्चमूषु धीर उशते तवस्वान् । स्वर्चक्षा रथिरः सत्यशुष्म: कामो न यो देवयतामसर्जि ॥ - Rigveda/9/97/46
- एष स्य ते मधुमाँ इन्द्र सोमो वृषा वृष्णे परि पवित्रे अक्षाः । सहस्रसाः शतसा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥ - Rigveda/9/87/4
- एष स्य ते मधुमाꣳ इन्द्र सोमो वृषा वृष्णः परि पवित्रे अक्षाः । सहस्रदाः शतदा भूरिदावा शश्वत्तमं बर्हिरा वाज्यस्थात् ॥५३१॥ - Samveda/531
- एष स्य धारया सुतोऽव्या वारेभिः पवते मदिन्तमः । क्रीडन्नूर्मिरपामिव ॥५८४॥ - Samveda/584
- एष स्य धारया सुतोऽव्यो वारेभिः पवते मदिन्तमः । क्रीळन्नूर्मिरपामिव ॥ - Rigveda/9/108/5
- एष स्य परि षिच्यते मर्मृज्यमान आयुभि: । उरुगायः कविक्रतुः ॥ - Rigveda/9/62/13
- एष स्य पीतये सुतो हरिरर्षति धर्णसिः । क्रन्दन्योनिमभि प्रियम् ॥ - Rigveda/9/38/6
- एष स्य पीतये सुतो हरिरर्षति धर्णसिः । क्रन्दन्योनिमभि प्रियम् ॥१२७८॥ - Samveda/1278
- एष स्य भानुरुदियर्ति युज्यते रथः परिज्मा दिवो अस्य सानवि। पृक्षासो अस्मिन्मिथुना अधि त्रयो दृतिस्तुरीयो मधुनो वि रप्शते ॥१॥ - Rigveda/4/45/1
- एष स्य मद्यो रसोऽव चष्टे दिवः शिशुः । य इन्दुर्वारमाविशत् ॥१२७७॥ - Samveda/1277
- एष स्य मद्यो रसोऽव चष्टे दिवः शिशु: । य इन्दुर्वारमाविशत् ॥ - Rigveda/9/38/5
- एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । गच्छञ्जारो न योषितम् ॥ - Rigveda/9/38/4
- एष स्य मानुषीष्वा श्येनो न विक्षु सीदति । गच्छञ्जारो न योषितम् ॥१२७६॥ - Samveda/1276
- एष स्य मित्रावरुणा नृचक्षा उभे उदेति सूर्यो अभि ज्मन्। विश्वस्य स्थातुर्जगतश्च गोपा ऋजु मर्तेषु वृजिना च पश्यन् ॥२॥ - Rigveda/7/60/2
- एष स्य वां पूर्वगत्वेव सख्ये निधिर्हितो माध्वी रातो अस्मे । अहेळता मनसा यातमर्वागश्नन्ता हव्यं मानुषीषु विक्षु ॥ - Rigveda/7/67/7
- एष स्य वाजी क्षिपणिन्तुरण्यति ग्रीवायाम्बद्धो अपिकक्षऽआसनि । क्रतुन्दधिक्राऽअनु सँसनिष्यदत्पथामङ्गाँस्यन्वापनीपणत्स्वाहा ॥ - Yajurveda/9/14
- एष स्य सोम: पवते सहस्रजिद्धिन्वानो वाचमिषिरामुषर्बुधम् । इन्दु: समुद्रमुदियर्ति वायुभिरेन्द्रस्य हार्दि कलशेषु सीदति ॥ - Rigveda/9/84/4
- एष स्य सोमो मतिभि: पुनानोऽत्यो न वाजी तरतीदरातीः । पयो न दुग्धमदितेरिषिरमुर्विव गातुः सुयमो न वोळ्हा ॥ - Rigveda/9/96/15
- एष हितो वि नीयतेऽन्तः शुन्ध्यावता पथा । यदी तुञ्जन्ति भूर्णयः ॥१२६९॥ - Samveda/1269
- एष हितो वि नीयतेऽन्तः शुभ्रावता पथा । यदी तुञ्जन्ति भूर्णयः ॥ - Rigveda/9/15/3
- एषा गोभिररुणेभिर्युजानास्रेधन्ती रयिमप्रायु चक्रे। पथो रदन्ती सुविताय देवी पुरुष्टुता विश्ववारा वि भाति ॥३॥ - Rigveda/5/80/3
- एषा जनं दर्शता बोधयन्ती सुगान्पथः कृण्वती यात्यग्रे। बृहद्रथा बृहती विश्वमिन्वोषा ज्योतिर्यच्छत्यग्रे अह्नाम् ॥२॥ - Rigveda/5/80/2
- एषा ते कुलपा राजन्तामु ते परि दद्मसि। ज्योक्पितृष्वासाता आ शीर्ष्णः समोप्यात् ॥ - Atharvaveda/1/14/0/3
- एषा ते राजन्कन्या वधूर्नि धूयतां यम। सा मातुर्बध्यतां गृहे ऽथो भ्रातुरथो पितुः ॥ - Atharvaveda/1/14/0/2