Loading...

543 परिणाम मिले!

  • एते असृग्रमिन्दवस्तिरः पवित्रमाशव: । विश्वान्यभि सौभगा ॥ - Rigveda/9/62/1
  • एते अस्मिन्देवा एकवृतो भवन्ति ॥ - Atharvaveda/13/4/0/13
  • एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम्। अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥ - Rigveda/1/81/9
  • एते त इन्द्र जन्तवो विश्वं पुष्यन्ति वार्यम्। अन्तर्हि ख्यो जनानामर्यो वेदो अदाशुषां तेषां नो वेद आ भर ॥ - Atharvaveda/20/56/0/6
  • एते त्ये भानवो दर्शतायाश्चित्रा उषसो अमृतास आगु: । जनयन्तो दैव्यानि व्रतान्यापृणन्तो अन्तरिक्षा व्यस्थुः ॥ - Rigveda/7/75/3
  • एते त्ये वृथगग्नय इद्धास: समदृक्षत । उषसामिव केतव: ॥ - Rigveda/8/43/5
  • एते द्युम्नेभिर्विश्वमातिरन्त मन्त्रं ये वारं नर्या अतक्षन्। प्र ये विशस्तिरन्त श्रोषमाणा आ ये मे अस्य दीधयन्नृतस्य ॥६॥ - Rigveda/7/7/6
  • एते धामान्यार्या शुक्रा ऋतस्य धारया । वाजं गोमन्तमक्षरन् ॥ - Rigveda/9/63/14
  • एते धावन्तीन्दव: सोमा इन्द्राय घृष्वयः । मत्सरास: स्वर्विद: ॥ - Rigveda/9/21/1
  • एते नर: स्वपसो अभूतन य इन्द्राय सुनुथ सोममद्रयः । वामंवामं वो दिव्याय धाम्ने वसुवसु व: पार्थिवाय सुन्वते ॥ - Rigveda/10/76/8
  • एते पूता विपश्चित: सोमासो दध्याशिरः । विपा व्यानशुर्धिय: ॥ - Rigveda/9/22/3
  • एते पूता विपश्चित: सोमासो दध्याशिरः । सूर्यासो न दर्शतासो जिगत्नवो ध्रुवा घृते ॥ - Rigveda/9/101/12
  • एते पृष्ठानि रोदसोर्विप्रयन्तो व्यानशुः । उतेदमुत्तमं रज: ॥ - Rigveda/9/22/5
  • एते मृष्टा अमर्त्याः ससृवांसो न शश्रमुः । इयक्षन्तः पथो रज: ॥ - Rigveda/9/22/4
  • एते वदन्ति शतवत्सहस्रवदभि क्रन्दन्ति हरितेभिरासभि: । विष्ट्वी ग्रावाणः सुकृत: सुकृत्यया होतुश्चित्पूर्वे हविरद्यमाशत ॥ - Rigveda/10/94/2
  • एते वदन्त्यविदन्नना मधु न्यूङ्खयन्ते अधि पक्व आमिषि । वृक्षस्य शाखामरुणस्य बप्सतस्ते सूभर्वा वृषभाः प्रेमराविषुः ॥ - Rigveda/10/94/3
  • एते वाता इवोरव: पर्जन्यस्येव वृष्टय: । अग्नेरिव भ्रमा वृथा ॥ - Rigveda/9/22/2
  • एते विश्वानि वार्या पवमानास आशत । हिता न सप्तयो रथे ॥ - Rigveda/9/21/4
  • एते वै प्रियाश्चाप्रियाश्चर्त्विजः स्वर्गं लोकं गमयन्ति यदतिथयः ॥ - Atharvaveda/9/6/2/6
  • एते शमीभिः सुशमी अभूवन्ये हिन्विरे तन्व१: सोम उक्थैः । नृवद्वदन्नुप नो माहि वाजान्दिवि श्रवो दधिषे नाम वीरः ॥ - Rigveda/10/28/12
  • एते सोमा अति वाराण्यव्या दिव्या न कोशासो अभ्रवर्षाः । वृथा समुद्रं सिन्धवो न नीची: सुतासो अभि कलशाँ असृग्रन् ॥ - Rigveda/9/88/6
  • एते सोमा अभि गव्या सहस्रा महे वाजायामृताय श्रवांसि । पवित्रेभि: पवमाना असृग्रञ्छ्रवस्यवो न पृतनाजो अत्या: ॥ - Rigveda/9/87/5
  • एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥ - Rigveda/9/8/1
  • एते सोमा अभि प्रियमिन्द्रस्य काममक्षरन् । वर्धन्तो अस्य वीर्यम् ॥११७८॥ - Samveda/1178
  • एते सोमा असृक्षत गृणानाः शवसे महे । मदिन्तमस्य धारया ॥१०६१॥ - Samveda/1061
  • एते सोमा असृक्षत गृणानाः श्रवसे महे । मदिन्तमस्य धारया ॥ - Rigveda/9/62/22
  • एते सोमा: पवमानास इन्द्रं रथा इव प्र ययुः सातिमच्छ । सुताः पवित्रमति यन्त्यव्यं हित्वी वव्रिं हरितो वृष्टिमच्छ ॥ - Rigveda/9/69/9
  • एते सोमास आशवो रथा इव प्र वाजिन: । सर्गा: सृष्टा अहेषत ॥ - Rigveda/9/22/1
  • एते सोमास इन्दव: प्रयस्वन्तश्चमू सुताः । इन्द्रं वर्धन्ति कर्मभिः ॥ - Rigveda/9/46/3
  • एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि। तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥१०॥ - Rigveda/7/19/10
  • एते स्तोमा नरां नृतम तुभ्यमस्मद्र्यञ्चो ददतो मघानि। तेषामिन्द्र वृत्रहत्ये शिवो भूः सखा च शूरोऽविता च नृणाम् ॥ - Atharvaveda/20/37/0/10
  • एतेनाग्ने ब्रह्मणा वावृधस्व शक्ती वा यत्ते चकृमा विदा वा। उत प्र णेष्यभि वस्यो अस्मान्त्सं नः सृज सुमत्या वाजवत्या ॥ - Rigveda/1/31/18
  • एतो न्व१द्य सुध्यो३ भवाम प्र दुच्छुना मिनवामा वरीयः। आरे द्वेषांसि सनुतर्दधामायाम प्राञ्चो यजमानमच्छ ॥५॥ - Rigveda/5/45/5
  • एतो न्विन्द्रं स्तवाम शुद्धं शुद्धेन साम्ना । शुद्धैरुक्थैर्वावृध्वांसं शुद्ध आशीर्वान्ममत्तु ॥ - Rigveda/8/95/7
  • एतो न्विन्द्रं स्तवाम सखायः स्तोम्यं नरम्। कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥ - Atharvaveda/20/65/0/1
  • एतो न्विन्द्रं स्तवाम सखाय: स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥ - Rigveda/8/24/19
  • एतो न्विन्द्रं स्तवामेशानं वस्व: स्वराजम् । न राधसा मर्धिषन्नः ॥ - Rigveda/8/81/4
  • एतो न्विन्द्रꣳ स्तवाम शुद्धꣳ शुद्धेन साम्ना । शुद्धैरुक्थैर्वावृध्वाꣳसꣳ शुद्धैराशीर्वान्ममत्तु ॥१४०२॥ - Samveda/1402
  • एतो न्विन्द्रꣳ स्तवाम शुद्धꣳ शुद्धेन साम्ना । शुद्धैरुक्थैर्वावृध्वाꣳसꣳ शुद्धैराशीर्वान्ममत्तु ॥३५०॥ - Samveda/350
  • एतो न्विन्द्रꣳ स्तवाम सखायः स्तोम्यं नरम् । कृष्टीर्यो विश्वा अभ्यस्त्येक इत् ॥३८७॥ - Samveda/387
  • एतौ ग्रावाणौ सयुजा युङ्ग्धि चर्मणि निर्भिन्ध्यंशून्यजमानाय साधु। अवघ्नती नि जहि य इमां पृतन्यव ऊर्ध्वं प्रजामुद्भरन्त्युदूह ॥ - Atharvaveda/11/1/0/9
  • एतौ मे गावौ प्रमरस्य युक्तौ मो षु प्र सेधीर्मुहुरिन्ममन्धि । आपश्चिदस्य वि नशन्त्यर्थं सूरश्च मर्क उपरो बभूवान् ॥ - Rigveda/10/27/20
  • एदं बर्हिरसदोमेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम्। यथापरु तन्वं संभरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥ - Atharvaveda/18/4/0/52
  • एदं मरुतो अश्विना मित्रः सीदन्तु वरुणः। देवासः सर्वया विशा ॥९॥ - Rigveda/5/26/9
  • एदमगन्म देवयजनम्पृथिव्या यत्र देवासो अजुषन्त विश्वे । ऋक्सामाभ्याँ सन्तरन्तो यजुर्भी रायस्पोषेण समिषा मदेम । इमा आपः शमु मे सन्तु देवीरोषधे त्रायस्व । स्वधिते मैनँ हिँसीः ॥ - Yajurveda/4/1
  • एदु मधोर्मदिन्तरꣳ सिञ्चाध्वर्यो अन्धसः । एवा हि वीर स्तवते सदावृधः ॥१६८४॥ - Samveda/1684
  • एदु मधोर्मदिन्तरꣳ सिञ्चाध्वर्यो अन्धसः । एवा हि वीरस्तवते सदावृधः ॥३८५॥ - Samveda/385
  • एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः । एवा हि वीरः स्तवते सदावृधः ॥ - Rigveda/8/24/16
  • एदु मध्वो मदिन्तरं सिञ्च वाध्वर्यो अन्धसः। एवा हि वीर स्तवते सदावृधः ॥ - Atharvaveda/20/64/0/4
  • एधोस्येधिषीमहि समिदसि तेजो सि तेजो मयि धेहि । समाववर्ति पृथिवी समुषाः समु सूर्यः । समु विश्वमिदञ्जगत् । वैश्वानरज्योतिर्भूयासँविभून्कामान्व्यश्नवै भूः स्वाहा ॥ - Yajurveda/20/23
Top