Loading...

2564 परिणाम मिले!

  • यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः । स नः सिषक्तु यस्तुरः ॥ - Yajurveda/3/29
  • यो रेवान्यो अमीवहा वसुवित्पुष्टिवर्धनः। स नः सिषक्तु यस्तुरः॥ - Rigveda/1/18/2
  • यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव। यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥ - Atharvaveda/13/1/0/25
  • यो रोहितौ वाजिनौ वाजिनीवान्त्रिभिः शतैः सचमनावदिष्ट। यूने समस्मै क्षितयो नमन्तां श्रुतरथाय मरुतो दुवोया ॥६॥ - Rigveda/5/36/6
  • यो व आपोऽग्निराविवेश स एष यद्वो घोरं तदेतत् ॥ - Atharvaveda/16/1/0/8
  • यो व आपोऽपां भागोप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ - Atharvaveda/10/5/0/15
  • यो व आपोऽपां वत्सोऽप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ - Atharvaveda/10/5/0/17
  • यो व आपोऽपां वृषभोप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ - Atharvaveda/10/5/0/18
  • यो व आपोऽपां हिरण्यगर्भोप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ - Atharvaveda/10/5/0/19
  • यो व आपोऽपामग्नयोऽप्स्वन्तर्यजुष्योष्या देवयजनाः। इदं तानति सृजामि तं माभ्यवनिक्षि। तैस्तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ - Atharvaveda/10/5/0/21
  • यो व आपोऽपामश्मा पृश्निर्दिव्योप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ - Atharvaveda/10/5/0/20
  • यो व आपोऽपामूर्मिरप्स्वन्तर्यजुष्यो देवयजनः। इदं तमति सृजामि तं माभ्यवनिक्षि। तेन तमभ्यतिसृजामो योस्मान्द्वेष्टि यं वयं द्विष्मः। तं वधेयं तं स्तृषीयानेन ब्रह्मणानेन कर्मणानया मेन्या ॥ - Atharvaveda/10/5/0/16
  • यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ - Yajurveda/11/51
  • यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥ - Yajurveda/36/15
  • यो वः शिवतमो रसस्तस्य भाजयतेह नः । उशतीरिव मातरः ॥१८३८॥ - Samveda/1838
  • यो वः शिवतमो रसस्तस्य भाजयतेह नः। उशतीरिव मातरः ॥ - Atharvaveda/1/5/0/2
  • यो वः शुष्मो हृदयेष्वन्तराकूतिर्या वो मनसि प्रविष्टा। तान्त्सीवयामि हविषा घृतेन मयि सजाता रमतिर्वो अस्तु ॥ - Atharvaveda/6/73/0/2
  • यो वः सुनोत्यभिपित्वे अह्नां तीव्रं वाजासः सवनं मदाय। तस्मै रयिमृभवः सर्ववीरमा तक्षत वृषणो मन्दसानाः ॥६॥ - Rigveda/4/35/6
  • यो व: शिवतमो रसस्तस्य भाजयतेह न: । उशतीरिव मातर: ॥ - Rigveda/10/9/2
  • यो व: सेनानीर्महतो गणस्य राजा व्रातस्य प्रथमो बभूव । तस्मै कृणोमि न धना रुणध्मि दशाहं प्राचीस्तदृतं वदामि ॥ - Rigveda/10/34/12
  • यो वर्धन ओषधीनां यो अपां यो विश्वस्य जगतो देव ईशे । स त्रिधातु शरणं शर्म यंसत्त्रिवर्तु ज्योति: स्वभिष्ट्य१स्मे ॥ - Rigveda/7/101/2
  • यो वा अभिभुवं नामर्तुं वेद। अभिभवन्तीमभिभवन्तीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा अभिभूर्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना। योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ - Atharvaveda/9/5/0/36
  • यो वा उद्यन्तं नामर्तुं वेद। उद्यतीमुद्यतीमेवाप्रियस्य भ्रातृव्यस्य श्रियमा दत्ते। एष वा उद्यन्नामर्तुर्यदजः पञ्चौदनः। निरेवाप्रियस्य भ्रातृव्यस्य श्रियं दहति भवत्यात्मना योजं पञ्चौदनं दक्षिणाज्योतिषं ददाति ॥ - Atharvaveda/9/5/0/35
  • यो वां गर्तं मनसा तक्षदेतमूर्ध्वां धीतिं कृणवद्धारयच्च । उक्षेथां मित्रावरुणा घृतेन ता राजाना सुक्षितीस्तर्पयेथाम् ॥ - Rigveda/7/64/4
  • यो वां नासत्यावृषिर्गीर्भिर्वत्सो अवीवृधत् । तस्मै सहस्रनिर्णिजमिषं धत्तं घृतश्चुतम् ॥ - Rigveda/8/8/15
  • यो वां परिज्मा सुवृदश्विना रथो दोषामुषासो हव्यो हविष्मता । शश्वत्तमासस्तमु वामिदं वयं पितुर्न नाम सुहवं हवामहे ॥ - Rigveda/10/39/1
  • यो वां यज्ञेभिरावृतोऽधिवस्त्रा वधूरिव । सपर्यन्ता शुभे चक्राते अश्विना ॥ - Rigveda/8/26/13
  • यो वां यज्ञैः शशमानो ह दाशति कविर्होता यजति मन्मसाधनः। उपाह तं गच्छथो वीथो अध्वरमच्छा गिर: सुमतिं गन्तमस्मयू ॥ - Rigveda/1/151/7
  • यो वां यज्ञो नासत्या हविष्मान्कृतब्रह्मा समर्यो३ भवाति । उप प्र यातं वरमा वसिष्ठमिमा ब्रह्माण्यृच्यन्ते युवभ्याम् ॥ - Rigveda/7/70/6
  • यो वां रजांस्यश्विना रथो वियाति रोदसी । अन्ति षद्भूतु वामव: ॥ - Rigveda/8/73/13
  • यो वां रथो नृपती अस्ति वोळ्हा त्रिवन्धुरो वसुमाँ उस्रयामा । आ न एना नासत्योप यातमभि यद्वां विश्वप्स्न्यो जिगाति ॥ - Rigveda/7/71/4
  • यो वाघते ददाति सूनरं वसु स धत्ते अक्षिति श्रवः । तस्मा इळां सुवीरा मा यजामहे सुप्रतूर्तिमनेहसम् ॥ - Rigveda/1/40/4
  • यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान । तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शव: ॥ - Rigveda/10/23/5
  • यो वाचा विवाचो मृध्रवाचः पुरू सहस्राशिवा जघान। तत्तदिदस्य पौंस्यं गृणीमसि पितेव यस्तविषीं वावृधे शवः ॥ - Atharvaveda/20/73/0/6
  • यो वामश्विना मनसो जवीयान्रथ: स्वश्वो विश आजिगाति। येन गच्छथः सुकृतो दुरोणं तेन नरा वर्तिरस्मभ्यं यातम् ॥ - Rigveda/1/117/2
  • यो वामुरुव्यचस्तमं चिकेतति नृपाय्यम् । वर्तिरश्विना परि यातमस्मयू ॥ - Rigveda/8/26/14
  • यो वामृजवे क्रमणाय रोदसी मर्तो ददाश धिषणे स साधति। प्र प्रजाभिर्जायते धर्मणस्परि युवोः सिक्ता विषुरूपाणि सव्रता ॥३॥ - Rigveda/6/70/3
  • यो विद्यात्सप्त प्रवतः सप्त विद्यात्परावतः। शिरो यज्ञस्य यो विद्यात्स वशां प्रति गृह्णीयात् ॥ - Atharvaveda/10/10/0/2
  • यो विद्यात्सूत्रं विततं यस्मिन्नोताः प्रजा इमाः। सूत्रं सूत्रस्य यो विद्याद्स विद्याद्ब्राह्मणं महत् ॥ - Atharvaveda/10/8/0/37
  • यो विद्याद्ब्रह्म प्रत्यक्षं परूंषि यस्य संभारा ऋचो यस्यानूक्यम् ॥ - Atharvaveda/9/6/1/1
  • यो विश्वचर्षणिरुत विश्वतोमुखो यो विश्वतस्पाणिरुत विश्वतस्पृथः। सं बाहुभ्यां भरति सं पतत्त्रैर्द्यावापृथिवी जनयन्देव एकः ॥ - Atharvaveda/13/2/0/26
  • यो विश्वत: सुप्रतीकः सदृङ्ङसि दूरे चित्सन्तळिदिवाति रोचसे। रात्र्याश्चिदन्धो अति देव पश्यस्यग्ने सख्ये मा रिषामा वयं तव ॥ - Rigveda/1/94/7
  • यो विश्वस्य जगतः प्राणतस्पतिर्यो ब्रह्मणे प्रथमो गा अविन्दत्। इन्द्रो यो दस्यूँरधराँ अवातिरन्मरुत्वन्तं सख्याय हवामहे ॥ - Rigveda/1/101/5
  • यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्यग्नये ॥ - Rigveda/8/103/6
  • यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥१५८३॥ - Samveda/1583
  • यो विश्वा दयते वसु होता मन्द्रो जनानाम् । मधोर्न पात्रा प्रथमान्यस्मै प्र स्तोमा यन्त्वग्नये ॥४४॥ - Samveda/44
  • यो विश्वान्यभि व्रता सोमस्य मदे अन्धसः । इन्द्रो देवेषु चेतति ॥ - Rigveda/8/32/28
  • यो विश्वाभि विपश्यति भुवना सं च पश्यति । स न: पर्षदति द्विष: ॥ - Rigveda/10/187/4
  • यो विश्वाभि विपश्यति भुवना सं च पश्यति। स नः पर्षदति द्विषः ॥ - Atharvaveda/6/34/0/4
  • यो विश्वाभि विपश्यति भुवना सं च पश्यति। स नः पूषाविता भुवत्॥ - Rigveda/3/62/9
Top