Loading...

179 परिणाम मिले!

  • गायत्साम नभन्यं१ यथा वेरर्चाम तद्वावृधानं स्वर्वत्। गावो धेनवो बर्हिष्यदब्धा आ यत्सद्मानं दिव्यं विवासान् ॥ - Rigveda/1/173/1
  • गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥१३४४॥ - Samveda/1344
  • गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः । ब्रह्माणस्त्वा शतक्रत उद्वꣳशमिव येमिरे ॥३४२॥ - Samveda/342
  • गायन्ति त्वा गायत्रिणोऽर्चन्त्यर्कमर्किणः। ब्रह्माणस्त्वा शतक्रत उद्वंशमिव येमिरे॥ - Rigveda/1/10/1
  • गार्हपत्येन सन्त्य ऋतुना यज्ञनीरसि। देवान्देवयते यज॥ - Rigveda/1/15/12
  • गाव इव ग्रामं यूयुधिरिवाश्वान्वाश्रेव वत्सं सुमना दुहाना । पतिरिव जायामभि नो न्येतु धर्ता दिवः सविता विश्ववारः ॥ - Rigveda/10/149/4
  • गाव उप वदावटे महि यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥११७॥ - Samveda/117
  • गाव उप वदावटे मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥१६०२॥ - Samveda/1602
  • गाव उपावतावतं मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ - Rigveda/8/72/12
  • गावः सन्तु प्रजाः सन्त्वथो अस्तु तनूबलम्। तत्सर्वमनु मन्यन्तां देवा ऋषभदायिने ॥ - Atharvaveda/9/4/0/20
  • गावश्चिद्घा समन्यवः सजात्येन मरुतः सबन्धवः । रिहते ककुभो मिथः ॥४०४॥ - Samveda/404
  • गावश्चिद्घा समन्यवः सजात्येन मरुत: सबन्धवः । रिहते ककुभो मिथः ॥ - Rigveda/8/20/21
  • गावऽउपावतावतम्मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ - Yajurveda/33/19
  • गावऽउपावतावतम्मही यज्ञस्य रप्सुदा । उभा कर्णा हिरण्यया ॥ - Yajurveda/33/71
  • गावो न यूथमुप यन्ति वध्रय उप मा यन्ति वध्रयः ॥ - Rigveda/8/46/30
  • गावो भगो गाव इन्द्रो म इछाद्गावः सोमस्य प्रथमस्य भक्षः। इमा या गावः स जनास इन्द्र इच्छामि हृदा मनसा चिदिन्द्रम् ॥ - Atharvaveda/4/21/0/5
  • गावो भगो गाव इन्द्रो मे अच्छान् गावः सोमस्य प्रथमस्य भक्षः। इमा या गावः स जनास इन्द्र इच्छामीद्धृदा मनसा चिदिन्द्रम् ॥५॥ - Rigveda/6/28/5
  • गावो यवं प्रयुता अर्यो अक्षन्ता अपश्यं सहगोपाश्चरन्तीः । हवा इदर्यो अभित: समायन्कियदासु स्वपतिश्छन्दयाते ॥ - Rigveda/10/27/8
  • गिरयश्चिन्नि जिहते पर्शानासो मन्यमानाः । पर्वताश्चिन्नि येमिरे ॥ - Rigveda/8/7/34
  • गिरयस्ते पर्वता हिमवन्तोऽरण्यं ते पृथिवि स्योनमस्तु। बभ्रुं कृष्णां रोहिणीं विश्वरूपां ध्रुवां भूमिं पृथिवीमिन्द्रगुप्ताम्। अजीतोऽहतो अक्षतोऽध्यष्ठां पृथिवीमहम् ॥ - Atharvaveda/12/1/0/11
  • गिरश्च यास्ते गिर्वाह उक्था च तुभ्यं तानि । सत्रा दधिरे शवांसि ॥ - Rigveda/8/2/30
  • गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युवः । याभिर्मदाय शुम्भसे ॥१०४३॥ - Samveda/1043
  • गिरस्त इन्द ओजसा मर्मृज्यन्ते अपस्युव: । याभिर्मदाय शुम्भसे ॥ - Rigveda/9/2/7
  • गिरा जात इह स्तुत इन्दुरिन्द्राय धीयते । विर्योना वसताविव ॥ - Rigveda/9/62/15
  • गिरा य एता युनजद्धरी त इन्द्र प्रिया सुरथा शूर धायू। प्र यो मन्युं रिरिक्षतो मिनात्या सुक्रतुमर्यमणं ववृत्याम् ॥४॥ - Rigveda/7/36/4
  • गिरा यदी सबन्धव: पञ्च व्राता अपस्यव: । परिष्कृण्वन्ति धर्णसिम् ॥ - Rigveda/9/14/2
  • गिरा वज्रो न संभृतः सबलो अनपच्युतः। ववक्ष ऋष्वो अस्तृतः ॥ - Atharvaveda/20/47/0/3
  • गिरा वज्रो न संभृतः सबलो अनपच्युतः। ववक्ष ऋष्वो अस्तृतः ॥ - Atharvaveda/20/137/0/14
  • गिरा वज्रो न सम्भृतः सबलो अनपच्युतः । ववक्ष उग्रो अस्तृतः ॥१२२४॥ - Samveda/1224
  • गिरा वज्रो न सम्भृत: सबलो अनपच्युतः । ववक्ष ऋष्वो अस्तृतः ॥ - Rigveda/8/93/9
  • गिरावरगराटेषु हिरण्ये गोषु यद्यशः। सुरायां सिच्यमानायां कीलाले मधु तन्मयि ॥ - Atharvaveda/6/69/0/1
  • गिरिमेनाँ आ वेशय कण्वाञ्जीवितयोपनान्। तांस्त्वं देवि पृश्निपर्ण्यग्निरिवानुदहन्निहि ॥ - Atharvaveda/2/25/0/4
  • गिरिर्न यः स्वतवाँ ऋष्व इन्द्रः सनादेव सहसे जात उग्रः। आदर्ता वज्रं स्थविरं न भीम उद्नेव कोशं वसुना न्यृष्टम् ॥६॥ - Rigveda/4/20/6
  • गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत् । समीचीने धिषणे वि ष्कभायति वृष्ण: पीत्वा मद उक्थानि शंसति ॥ - Rigveda/10/44/8
  • गिरीँरज्रान्रेजमानाँ अधारयद्द्यौः क्रन्ददन्तरिक्षाणि कोपयत्। समीचीने धिषणे वि ष्कभायति वृष्णः पीत्वा मद उक्थानि शंसति ॥ - Atharvaveda/20/94/0/8
  • गिरो जुषेथामध्वरं जुषेथां विश्वेह देवौ सवनाव गच्छतम् । सजोषसा उषसा सूर्येण चेषं नो वोळ्हमश्विना ॥ - Rigveda/8/35/6
  • गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे । इन्द्र त्वादातमिद्यशः ॥१९५॥ - Samveda/195
  • गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे। इन्द्र त्वादातमिद्यशः ॥ - Atharvaveda/20/6/0/6
  • गिर्वणः पाहि नः सुतं मधोर्धाराभिरज्यसे। इन्द्र त्वादातमिद्यशः॥ - Rigveda/3/40/6
  • गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ । तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥ - Rigveda/10/88/2
  • गीर्भिरूर्ध्वान्कल्पयित्वा रोहितो भूमिमब्रवीत्। त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥ - Atharvaveda/13/1/0/54
  • गीर्भिर्विप्र: प्रमतिमिच्छमान ईट्टे रयिं यशसं पूर्वभाजम् । इन्द्राग्नी वृत्रहणा सुवज्रा प्र नो नव्येभिस्तिरतं देष्णैः ॥ - Rigveda/7/93/4
  • गुदा आसन्त्सिनीवाल्याः सूर्यायास्त्वचमब्रुवन्। उत्थातुरब्रुवन्पद ऋषभं यदकल्पयन् ॥ - Atharvaveda/9/4/0/14
  • गुहा शिरो निहितमृधगक्षी असिन्वन्नत्ति जिह्वया वनानि । अत्राण्यस्मै पड्भिः सं भरन्त्युत्तानहस्ता नमसाधि विक्षु ॥ - Rigveda/10/79/2
  • गुहा सतीरुप त्मना प्र यच्छोचन्त धीतय: । कण्वा ऋतस्य धारया ॥ - Rigveda/8/6/8
  • गुहा हितं गुह्यं गूळ्हमप्स्वपीवृतं मायिनं क्षियन्तम्। उतो अपो द्यां तस्तभ्वांसमहन्नहिं शूर वीर्येण॥ - Rigveda/2/11/5
  • गूहता गुह्यं तमो वि यात विश्वमत्रिणम्। ज्योतिष्कर्ता यदुश्मसि ॥ - Rigveda/1/86/10
  • गृणाना जमदग्निना योनावृतस्य सीदतम् । पातꣳ सोममृतावृधा ॥६६५॥ - Samveda/665
  • गृणाना जमदग्निना योनावृतस्य सीदतम्। पातं सोममृतावृधा॥ - Rigveda/3/62/18
  • गृणानो अङ्गिरोभिर्दस्म वि वरुषसा सूर्येण गोभिरन्धः। वि भूम्या अप्रथय इन्द्र सानु दिवो रज उपरमस्तभायः ॥ - Rigveda/1/62/5
Top