483 परिणाम मिले!
- शमग्नयःसमिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः। शृतं कृण्वन्त इहमाव चिक्षिपन् ॥ - Atharvaveda/18/4/0/12
- शमग्निरग्निभि: करच्छं नस्तपतु सूर्य: । शं वातो वात्वरपा अप स्रिध: ॥ - Rigveda/8/18/9
- शमग्नेपश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम्। एकस्त्रेधाविहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥ - Atharvaveda/18/4/0/11
- शमिता नो वनस्पतिः सविता प्रसुवन्भगम् । ककुप्छन्द इन्द्रियँवशा वेहद्वयो दधुः ॥ - Yajurveda/21/21
- शमू षु वां मधूयुवास्माकमस्तु चर्कृतिः। अर्वाचीना विचेतसा विभिः श्येनेव दीयतम् ॥९॥ - Rigveda/5/74/9
- शम्या ह नाम दधिषे मम दिप्सन्ति ये धना। रात्रीहि तानसुतपा य स्तेनो न विद्यते यत्पुनर्न विद्यते ॥ - Atharvaveda/19/49/0/7
- शयुः परस्तादध नु द्विमाताऽबन्धनश्चरति वत्स एकः। मित्रस्य ता वरुणस्य व्रतानि महद्देवानामसुरत्वमेकम्॥ - Rigveda/3/55/6
- शयो हत इव ॥ - Atharvaveda/20/131/0/16
- शरदे त्वा हेमन्ताय वसन्ताय ग्रीष्माय परि दद्मसि। वर्षाणि तुभ्यं स्योनानि येषु वर्धन्त ओषधीः ॥ - Atharvaveda/8/2/0/22
- शरव्या मुखेऽपिनह्यमान ऋतिर्हन्यमाना ॥ - Atharvaveda/12/5/0/25
- शरस्य चिदार्चत्कस्यावतादा नीचादुच्चा चक्रथु: पातवे वाः। शयवे चिन्नासत्या शचीभिर्जसुरये स्तर्यं पिप्यथुर्गाम् ॥ - Rigveda/1/116/22
- शरास: कुशरासो दर्भास: सैर्या उत। मौञ्जा अदृष्टा वैरिणाः सर्वे साकं न्यलिप्सत ॥ - Rigveda/1/191/3
- शर्कराः सिकता अश्मान ओषधयो वीरुधस्तृणा। अभ्राणि विद्युतो वर्षमुच्छिष्टे संश्रिता श्रिता ॥ - Atharvaveda/11/7/0/21
- शर्धंशर्धं व एषां व्रातंव्रातं गणंगणं सुशस्तिभिः। अनु क्रामेम धीतिभिः ॥११॥ - Rigveda/5/53/11
- शर्धो मारुतमुच्छंस सत्यशवसमृभ्वसम्। उत स्म ते शुभे नरः प्र स्यन्द्रा युजत त्मना ॥८॥ - Rigveda/5/52/8
- शर्म च स्थो वर्म च स्थोच्छिद्रे बहुलेऽउभे । व्यचस्वती सँवसाथाम्भृतमग्निं पुरीष्यम् ॥ - Yajurveda/11/30
- शर्म यच्छत्वोषधिः सह देवीररुन्धती। करत्पयस्वन्तं गोष्ठमयक्ष्माँ उत पूरुषान् ॥ - Atharvaveda/6/59/0/2
- शर्म वर्मैतदाहरास्यै नार्या उपस्तिरे। सिनीवालि प्र जायतां भगस्य सुमतावसत्॥ - Atharvaveda/14/2/0/21
- शर्मास्यवधूतँ रक्षोवधूताऽअरातयोदित्यास्त्वगसि प्रति त्वादितिर्वेत्तु । अद्रिरसि वानस्पत्यो ग्रावासि पृथुबुध्नः प्रति त्वादित्यास्त्वग्वेत्तु ॥ - Yajurveda/1/14
- शर्मास्यवधूतँ रक्षोऽवधूताऽअरातयोदित्यास्त्वगसि प्रति त्वादितिर्वेत्तु । धिषणासि पर्वती प्रति त्वादित्यास्त्वग्वेत्तु दिवः स्कम्भनीरसि धिषणासि पार्वतेयी प्रति त्वा पर्वती वेत्तु ॥ - Yajurveda/1/19
- शर्यणावति सोममिन्द्र: पिबतु वृत्रहा । बलं दधान आत्मनि करिष्यन्वीर्यं महदिन्द्रायेन्दो परि स्रव ॥ - Rigveda/9/113/1
- शर्वः क्रुद्धः पिश्यमाना शिमिदा पिशिता ॥ - Atharvaveda/12/5/0/36
- शर्वएनमिश्वासो दक्षिणाया दिशो अन्तर्देशादनुष्ठातानु तिष्ठति नैनंशर्वो न भवो नेशानः। नास्य पशून्न समानान्हिनस्ति य एवं वेद ॥ - Atharvaveda/15/5/0/5
- शल्याद्विषं निरवोचं प्राञ्जनादुत पर्णधेः। अपाष्ठाच्छृङ्गात्कुल्मलान्निरवोचमहं विषम् ॥ - Atharvaveda/4/6/0/5
- शवसा ह्यसि श्रुतो वृत्रहत्येन वृत्रहा । मघैर्मघोनो अति शूर दाशसि ॥ - Rigveda/8/24/2
- शवसा ह्यसिश्रुतो वृत्रहत्येन वृत्रहा। मघैर्मघोनो अति शूर दाशसि ॥ - Atharvaveda/18/1/0/38
- शविष्ठं न आ भर शूर शव ओजिष्ठमोजो अभिभूत उग्रम्। विश्वा द्युम्ना वृष्ण्या मानुषाणामस्मभ्यं दा हरिवो मादयध्यै ॥६॥ - Rigveda/6/19/6
- शशः क्षुरं प्रत्यञ्चं जगाराद्रिं लोगेन व्यभेदमारात् । बृहन्तं चिदृहते रन्धयानि वयद्वत्सो वृषभं शूशुवानः ॥ - Rigveda/10/28/9
- शशमानस्य वा नरः स्वेदस्य सत्यशवसः । विदा कामस्य वेनतः ॥१५९४॥ - Samveda/1594
- शशमानस्य वा नरः स्वेदस्य सत्यशवसः। विदा कामस्य वेनतः ॥ - Rigveda/1/86/8
- शश्वत्तममीळते दूत्याय हविष्मन्तो मनुष्यासो अग्निम् । वहिष्ठैरश्वै: सुवृता रथेना देवान्वक्षि नि षदेह होता ॥ - Rigveda/10/70/3
- शश्वत्पुरोषा व्युवास देव्यथो अद्येदं व्यावो मघोनी। अथो व्युच्छादुत्तराँ अनु द्यूनजरामृता चरति स्वधाभि: ॥ - Rigveda/1/113/13
- शश्वदग्निर्वध्र्यश्वस्य शत्रून्नृभिर्जिगाय सुतसोमवद्भिः । समनं चिददहश्चित्रभानोऽव व्राधन्तमभिनद्वृधश्चित् ॥ - Rigveda/10/69/11
- शश्वदिन्द्रः पोप्रुथद्भिर्जिगाय नानदद्भिः शाश्वसद्भिर्धनानि। स नो हिरण्यरथं दंसनावान्त्स नः सनिता सनये स नोऽदात्॥ - Rigveda/1/30/16
- शश्वद्धि व: सुदानव आदित्या ऊतिभिर्वयम् । पुरा नूनं बुभुज्महे ॥ - Rigveda/8/67/16
- शश्वन्तं हि प्रचेतसः प्रतियन्तं चिदेनसः । देवा: कृणुथ जीवसे ॥ - Rigveda/8/67/17
- शश्वन्तो हि शत्रवो रारधुष्टे भेदस्य चिच्छर्धतो विन्द रन्धिम्। मर्ताँ एनः स्तुवतो यः कृणोति तिग्मं तस्मिन्नि जहि वज्रमिन्द्र ॥१८॥ - Rigveda/7/18/18
- शंसा महामिन्द्रं यस्मिन्विश्वा आ कृष्टयः सोमपाः काममव्यन्। यं सुक्रतुं धिषणे विभ्वतष्टं घनं वृत्राणां जनयन्त देवाः॥ - Rigveda/3/49/1
- शंसा मित्रस्य वरुणस्य धाम शुष्मो रोदसी बद्बधे महित्वा । अयन्मासा अयज्वनामवीरा: प्र यज्ञमन्मा वृजनं तिराते ॥ - Rigveda/7/61/4
- शंसावाध्वर्यो प्रति मे गृणीहीन्द्राय वाहः कृणवाव जुष्टम्। एदं बर्हिर्यजमानस्य सीदाथा च भूदुक्थमिन्द्राय शस्तम्॥ - Rigveda/3/53/3
- शंसेदुक्थं सुदानव उत द्युक्षं यथा नरः। चकृमा सत्यराधसे ॥२॥ - Rigveda/7/31/2
- शाक्मना शाको अरुणः सुपर्ण आ यो महः शूरः सनादनीडः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥१७८३॥ - Samveda/1783
- शाक्मना शाको अरुणः सुपर्ण आ यो महः शूर: सनादनीळः । यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ॥ - Rigveda/10/55/6
- शाचिगो शाचिपूजनायं रणाय ते सुतः । आखण्डल प्र हूयसे ॥ - Rigveda/8/17/12
- शाचिगो शाचिपूजनायं रणाय ते सुतः। आखण्डल प्र हूयसे ॥ - Atharvaveda/20/5/0/6
- शाचिगो शाचिपूजनायꣳ रणाय ते सुतः । आखण्डल प्र हूयसे ॥७२६॥ - Samveda/726
- शादन्दद्भिरवकान्दन्तमूलैर्मृदम्बर्स्वैस्तेगान्दँष्ट्राभ्याढँ सरस्वत्याऽअग्रजिह्वञ्जिह्वायाऽउत्सादमवक्रन्देन तालु वाजँ हनुभ्यामपऽआस्येन वृषणमाण्डाभ्यामात्याँश्मश्रुभिः पन्थानम्भ्रूभ्यान्द्यावापृथिवी वर्ताभ्याँविद्युतङ्कनीनकाभ्याँ शुक्लाय स्वाहा कृष्णाय स्वाहा पार्याणि पक्ष्माण्यवार्या इक्षवो वार्याणि पक्ष्माणि पार्या इक्षवः ॥ - Yajurveda/25/1
- शान्ता द्यौः शान्ता पृथिवी शान्तमिदमुर्वन्तरिक्षम्। शान्ता उदन्वतीरापः शान्ता नः सन्त्वोषधीः ॥ - Atharvaveda/19/9/0/1
- शान्तानि पूर्वरूपाणि शान्तं नो अस्तु कृताकृतम्। शान्तं भूतं च भव्यं च सर्वमेव शमस्तु नः ॥ - Atharvaveda/19/9/0/2
- शान्तो अग्निः क्रव्याच्छान्तः पुरुषरेषणः। अथो यो विश्वदाव्य१स्तं क्रव्यादमशीशमम् ॥ - Atharvaveda/3/21/0/9